________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मकल्पद्रुमः ।
कषायत्यागाधिकारः ।
रे जीव सेहिथ सहिष्यसि च व्यथास्ता - स्त्वं नारकादिषु पराभवभूः कषायैः । मुग्धोदितैः कुवचनादिभिरप्यतः किं क्रोधान्निहंसि निजपुण्यधनं दुरापम् ॥ ६६ ॥ पैराभिभूतौ यदि मानमुक्तिस्ततैस्तपोऽखण्डमतः शिवं च । मानादृतिर्दुर्वचनादिभिश्च तपःक्षयस्तन्नरकादिदुःखम् ॥ ६७ ॥ वैरादि चात्रेति विचार्य लाभालाभौ कृतिन्नाभवसंभविन्यां । तपोऽथवा मानर्मवाभिभूताविहास्ति नूनं हि गतिर्द्विधैव ॥ ६८ ॥
( युग्मम् )
श्रुत्वाक्रोशान् यो मुद्रा पूरितः स्यात् लोष्टाद्यैर्यश्चाहतो लोमहर्षी । यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष श्रेयो द्राग् लभेतैव" योगी ॥ ६९ ॥ को गुणस्तव कदा च कषायैर्निर्ममे भजसि नित्यमिमान् यत् । किं न पश्यसि च दोषममीषां तापमत्र नरकं च परत्र ॥ ७० ॥ यत् कषायजनितं तव सौख्यं यत् कषायपरिहानिभवं च । 'द्विशेषमथवैतदुदर्क संविभाव्य भज धीर विशिष्टम् ॥ ७१ ॥ सुखेन साध्या तपसां प्रवृत्तिर्यथा तथा नैव तु मानमुक्तिः । आद्या न 'दत्तेऽपि शिवं परा तु निदर्शनाद्वाहुबलेः प्रदत्ते ॥ ७२ ॥ सम्यग् विचार्येति विहाय मानं रक्षन् दुरापाणि तपांसि यत्नात् । मुदा मनीषी सहतेऽभिभूतीः शूरः क्षेमायामपि नीचजाताः ॥ ७३ ॥
४ मानादरः ।
१ दुर्वचनादिना पराभवे जायमाने । २ मानत्यागः । ३ तदा । ५ भवं यावत् संभविनी तस्याम् । ६ अव रक्ष । ७ मार्गः । मानत्यागे आभवसंभविवचनमात्रपराभवो भवति । मानादरे च परभवसंभवी नरकादिपराभवो भविष्यति । अतो लाभालाभरूपं मार्गद्वयं विचार्य यदिष्टं तद्गृहाण । ८ व्याप्तः । ९ न वक्ति । १० अत्र एवकारोऽत्यन्तायोगं व्यवच्छिनत्ति । ११ तयोः कषायजनितसुखकषायक्षयजनितसुखयोर्विशेषं न्यूनाधिकगुणतालक्षणं । १२ अथवा कषायकरणकषायक्षयकरणयोरुत्तरकालप्रादुर्भूतं कुगतिसुगतिलक्षणं फल साध्यं (सम्यक् पर्यालोच्य ) । १३ अनयोर्मध्ये वरिष्ठं । १४ अत्रापिशब्देन तपसां प्रवृतिर्मानमुक्तिसहिता शिवं दत्ते मानसहिता च शिवं न दत्ते इति सूच्यते । १५ बाहुबलिकथा परिशिष्टतो ज्ञेया । १६ क्षमायां शरः । क्षमाशील इत्यर्थः ।
For Private And Personal Use Only