________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरुषोत्तमदेवः।
अमरकोषपरिशिष्टरूपस्य त्रिकाण्डशेषस्य कर्ता पुरुषोत्तमदेवो वङ्गदेशीयो हलायुधवंशोत्पन्नः रिवस्ताब्दीयत्रयोदशशतकोत्तरार्धान्न प्राचीन इति नानार्थसंग्रहोपोदाते (१४ पृष्ठे) श्रीआनन्दरामो वक्ति । मराठीभाषानिबद्ध कविचरित्राख्यग्रन्थे तु 'पुरुषोत्तमः कलिङ्गदेशमहीपतिः शालिवाहनशकाब्दचतुर्दशशतक आसीत् । कटकाभिधानं नगरं च तद्राजधानी बभूव । स च ओरिसाक्षत्रिय आसीत् । तेनैव त्रिकाण्डशेपः, हारावली, एकाक्षरकोषः, इति ग्रन्थत्रयं स्वदेशीयपाठशालोपयुक्तं प्रणीतम्' इत्याद्युक्तमस्ति । सकारभेदो जकारभेदश्चेति कोषद्वयमन्यदपि पुरुषोत्तमेन प्रणीतमस्तीति श्रीराजेन्द्रलालमित्रप्रणीतसूचीपत्रतः प्रतीयते । हारावलीसमाप्तौ श्रीधृतिसिंहजनमेजययोः समं निरूप्य धृतिसिंहवचनाधारेण हारावली प्रणीतेति पुरुषोत्तमो वदति । तत्र कोऽयं धृतिसिंहो जनमेजयश्चेति न निश्चयः । राजेन्द्रलालमित्रस्तु 'नोटिसिस् ऑव् संस्कृत म्यान्युस्क्रिप्टस्' नाम्नि सूचीपत्रे दशमे एकादशे वा विस्ताब्दशतके पुरुषोत्तमसत्तां वदति । अस्माभिस्तु पुरुषोत्तमविषये किमपि न ज्ञायते । (१) त्रिकाण्डशेषः, (२) हारावली, (३) वर्णदेशना, इति ग्रन्थत्रयं पुरुषोत्तमदेवप्रणीतमुपलभ्यते । एकाक्षरकोप-द्विरूपकोषौ च पुरुषोत्तमदेवकृताविति संदिग्धम् । यतः क्वचिदेव तत्पुस्तके पुरुषोत्तमदेवनामोपलभ्यते । विष्णुभक्तिकल्पलताभिधं काव्यमपि पुरुषोत्तमप्रणीतमस्ति । सोऽप्ययमेव त्रिकाण्डशेपादिकर्ता पुरुषोत्तम इति भाति ।
तत्रास्माभिर्मुद्रणं येषां पुस्तकानामाधारेण कृतं तन्नामानि--- त्रिकाण्डशेषपुस्तकानि-.... क-जयपुरराजगुरुभट्टलक्ष्मीदत्तसूनुभश्रीदत्तानां पुस्तकम्, १६९० मिते विक्रमसंवत्सरे
काश्यां लिखितम् । ख-जयपुरराजवैद्यश्रीकृष्णशर्मणाम् । ग-जयपुरनिवामिदिगम्बरजैनपण्डितफतेलालानाम् ।।
घ-१७८८ मितेऽब्दे मुम्बय्यां चन्द्रप्रकाशयत्रालये मुद्रितम् । हारावलीपुस्तकानि
क-जयपुरमहाराजाश्रितमैथिलाभिजनधर्मशास्त्रिनैयायिकश्रीरघुवरशर्मणाम् । ख-~-मुम्बय्यां मुद्रितम् ।
ग-काश्यां मुद्रितम् । एकाक्षरकोषपुस्तकानि
क-पूर्वोक्तविशेषणविशिष्टश्रीरघुवरशर्मणाम् । ख-मुम्बय्यां मुद्रितम् ।
ग---कलिकत्तानगरे हृषीकेशभट्टाचार्येण मुद्रितम् । द्विरूपकोषपुस्तकानि---
क-कलिकत्तामुद्रितम् ।
ख-काश्यां मुद्रितम् । एतत्पुस्तकाधारणास्मन्मुद्रणं संपन्नमिति शिवम् ॥
For Private and Personal Use Only