________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । बहुव्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् । गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः ॥ १४९८ कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि । अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ १४९९ षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ १५००
इति लिङ्गादिसंग्रहवर्ग: ।।५।। इत्यमरसिंहकृतौ नामलिङ्गानुशासने । सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥ १५०१
For Private and Personal Use Only