________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-११ अभिधानचिन्तामणिशिलोञ्छः । कूटयत्रे पाशयन्त्रं समौ चाण्डालपुक्कसौ । इति तृतीयकाण्डस्य शिलोञ्छोऽयं समर्थितः ॥ ८२ रत्नवती भुवि दिवस्पृथिव्यावपि रोदसी। माणिबन्धं माणिमन्तं सैन्धवे वसुके वसु ॥ टङ्कनष्टङ्कण उपावर्तनं चापि नीवृति ।। जङ्गलः स्याजाङ्गलोऽपि. मालवन्मालको मतः ॥ पत्तने पट्टनमपि कुण्डिने कुण्डिनापुरम् । स्यात्कुण्डिनपुरमपि विपणौ पण्यवीथिका ॥ सुरङ्गायां संधिरपि। गृहे धाममपि स्मृतम् । उपकार्योपकर्यापि प्रसादे च प्रसादनः ।। शान्तीगृहं शान्तिगृहे। प्राङ्गणं त्वङ्गणं मतम् । कपाटवत्कवाटोऽपि पक्षद्वारे खडक्किका ॥ ८७ कुसूलवत्कुशूलोऽपि।संपुटे पुट इत्यपि । पेटायां स्यात्पेटकोऽपि पेडापि कृतिनां मते ॥ ८८ पवन्यपि समूहिन्यामयोनि मुशलं विदुः ।। कण्डोलके पिटकोऽपि चुल्यामन्तीति कथ्यते ॥ ८९ खजः खजाकोऽपि मथि विष्कम्भो कटकोऽस्य तु।। अगोऽपि पर्वते क्रौञ्चः क्रोश्चवन्मन्यते बुधैः९० कखट्यपि खटिन्यां स्यात्ताम्रमौदुम्बरं विदुः । शातकुम्भमपि स्वर्ण पारदश्चपलोऽपि च॥ ९१ रसजातं रसायं च तुत्थे दारिसोद्भवे । गौक्षिके वैष्णवोऽपि स्यागोपित्तं हरितालके॥ ९२ मनःशिलायां नेपाली शिला च सुधियां मता। शृङ्गारमपि सिन्दूरे कुरुविन्दे तु हिङ्गुलः ॥ ९३ बोलो गोपरसोऽप्युक्तो रत्नं माणिक्यमित्यपि । पद्मरागे शोणिरत्नं वैराट्टो राजपट्टवत् ॥ ९४ नीलमणौ महानीलंकमन्धमपि वारिणि । धूमिकाधूममहिषी धूमर्यो महिकाः समाः॥ ९५ अकूवारोऽपि जलधौ मकरालय इत्यपि । निम्नगायां हादिनी स्याज्जहुकन्यापि जाह्नवी ॥ ९६ कलिन्दपुत्री कालिन्दी रेवा मेकलकन्यका । चान्द्रभागा चन्द्रभागा गोमती गोतमीत्यपि ॥ ९७ चक्राण्यपि पुटभेदाः पङ्के चिखल्ल इत्यपि । उद्घातनोद्घाटने च घटीयन्त्रे प्रकीर्तिते ॥ सरस्तडागस्तटाकोऽप्यथ तल्लश्च पल्वले । आशयाशशुष्मबर्हिर्बहिरुत्थदमूनसः ॥ ९९ अग्नौ क्षणप्रभा विद्युद्गन्धवाहसदागती। वायौ चरणपेऽपि द्रुस्त्वक्त्वचा स्तबके पुनः॥ १०० गुलुञ्छलुछयौ माकन्दरसालावपि, चूतवत् । किंकिराते कुरुण्टककुरुण्डकावपि स्मृतौ ॥ १०१ कर्कन्धूरपि कर्कन्धौ हस्वादिश्चाटरूषकः । वाशा च स्नुहिः स्नुहापि पियालोऽपि प्रियालवत् ।। १०२ नार्यङ्गोऽपि च नारङ्गोऽक्षे विभेदक इत्यपि । भवेत्तमालस्तापिच्छो निर्गुण्डी सुन्दुवारवत् ॥ १०३ अपा जवा मातुलुङ्गो मातुलिङ्गोऽपि कीर्तितः। धत्तूर इव धत्तूरो वंशस्त्वक्सार इत्यपिः॥ १०४ हीवेरं केशसलिलपर्यायैः स्मर्यते बुधैः । पङ्कजिन्यां कमलिनी कुमुदिनी कुमुद्वती॥ विसप्रसूनं कमले कुमुत्कुमुदवन्मतम् । शेपालं च जलनीली सातीनोऽपि सतीनवत् ॥ १०६ कुल्मासवत्कुल्माषोऽपि गवेधुका गवीधुका । कणिशं कनिशं रिद्धे धान्ये लावासितं मतम् ॥ १०७ हालाहलं हालहलं मुस्तायां मुस्तकोऽपि च । कृमिः क्रिमिरपि गण्डूपदः किंचुलुकोऽपि च ॥१०८ शम्बुका अपि शम्बूका वृश्चिको द्रुत इत्यपि । भसलो मधुकरोऽली पिक्को विकः करिः करी॥ १०९ व्यालो व्याडोऽप्यौपवाह्योऽप्युपवह्योऽपि रावरा। शृङ्खले निगलोऽण्डुश्च कक्षा कक्ष्यापि वाल्हिके ११०' 'वाल्हीकोऽपि वल्गवागे खलिनं च खलीनवत् । मार्यो पुष्टे गोपतौ तु शंल इत्वर इत्यपि ॥ १११ स्थौरी स्थूर्यपि ककुदे ककुत्ककुदमित्यपि । नैचिकं नैचिकी च स्यान्मलिनी बालगर्भिणी ॥ ११२ पवित्रं गोमये छागे. शुभोऽथ भषकः शुनि । सैरमा देवशुन्यां च यमरथोऽपि सैरिभे ॥ ११३ पारिन्द्र इव पारीन्द्रः शरभेऽष्टापदोऽपि च । सृगालवच्छृगालोऽपि प्लवगः प्रवगोऽपि च ॥ ११४ वानायुरपि वातायुरुन्दरोऽपि च मूषके । ह्रीकुर्वन्बिडालोऽपि गोकर्णोऽपि भुजंगमे ॥ ११५
९८
For Private and Personal Use Only