SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra हेमचन्द्रः कामं कामसमृद्धिपूरकरमारामाभिरामाः सदा स्वच्छन्द खनतत्परैर्द्विजकुलैरत्यन्तवाचालिताः । उत्सर्पद्गुणशालिवप्रवलयप्रीतैः तैः प्रसन्ना जनैरत्रान्तश्च बहिश्च संप्रति भुवः शोभाद्भुतं बिभ्रति ॥ लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौढोदयाधिष्ठितविग्रहोऽयम् । विभ्राजते नागरकाम्यवृष्टिर्वप्रश्च चौलुक्य नराधिपश्च ॥ यावत्पृथ्वी पृथुविरचिताशेषभूभृन्निवेशा यावत्कीर्तिः सगरनृपतेर्विद्यते सागरोऽयम् । तावन्नन्द्याद्विजवरमहास्थानरक्षानिदानं श्री चौलुक्यक्षितिपतियशः कीर्तनं वप्र एषः ॥ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥ संवत् १२०८ वर्षे आश्विन शुदि (२) गुरौ लिखितं नागर ब्राह्मणपण्डितबालणेन ॥' इति काव्यमाला पुस्तकान्तर्गतप्राचीनलेखमालायां G. Bühler Ph. D., L. L. D., C. I. E. महाशयप्रेषित ४५ तमलेखतः विक्रमसंवत् १२०८ (AD 1151 ) रूपः स्फुटमेव प्रतीयते । एवं च द्वादशी ख्रिस्तशतिका हेमचन्द्रसत्ताधारभूतावगम्यते । अनेनाचार्य श्री हेमचन्द्रेणेयन्तो ग्रन्था निर्मिता इति निश्चितं नैव । परंतु तन्निर्मितग्रन्थेषु — अनेकार्थकोषः, अनेकार्थशेषः, अभिधानचिन्तामणि: ( नाममालाव्याख्या), अलंकार चूडामणि: (काव्यानुशासनव्याख्या), उणादिसूत्रवृत्तिः, काव्यानुशासनम्, छन्दोनुशासनम्, छन्दोनुशासनवृत्तिः, देशीनाममाला सवृत्तिः, [द्याश्रयकाव्यं सवृत्ति ], धातुपाठः सवृत्तिः, धातुपारायणं सवृत्ति, धातुमाला, नाममाला, नाममालाशेषः, निघण्टुशेषः, [ प्रमाणमीमांसा सवृत्तिः,] बलाबलसूत्रबृहद्वृत्तिः, बालभाषाव्याकरणसूत्रवृत्तिः, [योगशास्त्रम्,] विभ्रमसूत्रम्, [लिङ्गानुशासनं सवृत्ति,] शब्दानुशासनं सवृत्ति, शेषसंग्रहः, शेष संग्रहसारोद्धारः, एते ग्रन्थाः Catalogus Catalogorum ग्रन्थे Dr. Theodor Aufrecht महाशयैः प्रकाशिताः । एवमनेकलक्षात्मकग्रन्थकर्तृश्वेताम्बर जैनाचार्य श्री हेमचन्द्रकृतान्यभिधानान्येवास्मिन्पुस्तके संगृहीतानि । तदेतेषामभिधानानां मुद्रणाय शोधनसमये येषां सहृदयानां पुस्तकानि प्राप्तानि तेषां नामानि धन्यवादपुरःसरं प्रकाश्यन्ते १. अभिधानचिन्तामणिः ( नाममाला) 33 "" "" 32 अनेकार्थ करवाकरकौमुदी ४. निघण्टुशेष: www.kobatirth.org २. अभिधानचिन्तामणिपरिशिष्टम् ( नाममालाशेषः) - अभिधानचिन्तामणितोऽस्माभिरुद्धृतम् । ३. अनेकार्थसंग्रहः - वाराणसीमुद्रितः । - जयपुरराजगुरु श्रीलक्ष्मीदत्तात्मजश्रीदत्तानाम् । — जयपुरराजगुरुपर्वणीकर श्रीनारायणभट्टानाम् । -जंगमयुगप्रधान बृहत्खरतरगच्छप्रधानभट्टारकश्रीजिनमुक्तिसूरिणाम् । - पुण्यपत्तनस्थपुस्तकालयतः । Acharya Shri Kailassagarsuri Gyanmandir - वाराणसीमुद्रितः । -जयपुर राजगुरु श्रीलक्ष्मीदत्त भट्टात्मजश्रीदत्तानाम् । -जयपुरराजकीयपुस्तकालयतः । For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy