________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
अभय रत्नसार। को विस्मयोत्र यदि नाम गुणौरशेष, रत्वं संश्रितो निरवकाशतया मुनीश ! । दोष -रुपात्तविविधाश्रय-जात-गर्वे, स्वप्नान्तरेऽपि न कदाचिद-पीक्षितोऽसि ॥ २७॥ उच्च रशोक-तरुसंश्रितमुन्मयूख,-माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्त-तमो-वितानं, बिम्बं वेरिव पयोधर-पाव-वति ॥२८॥ सिंहासने मणि-मयूख-शिखा-विचित्रे, विभ्राजते तव वपुः कनकावदातम् । बिम्बं विपद्विलसदंशुलता-वितानं, तुङ्गो-दयाद्रि-शिरसीव सहसरश्मेः ॥ २६ ॥ कुन्दावदात-चलचामर-चारु-शोभ, विभ्राजते तव वपुः कलधौत-कान्तम् । उद्यच्छशाङ्क-शुचि-निर्भर-वारिधार--मुच्च स्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ छत्र त्रयं तव विभाति शशाङ्ककान्त, मुच्चः स्थितं स्थगित-भानुकर-प्रतापम्। मुक्ताफल-प्रकर-जाल-वि-वृद्धशोभ, प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥
For Private And Personal Use Only