________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भक्तामर स्तोत्रम् १०७ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस-रश्मिं, प्राच्येव दिग् जनयति स्फुरदंशु-जालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांस,-मादित्य-वर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिव-पदस्य मुनीन्द्र : पन्थाः ॥२३॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्य, ब्रह्माणमीश्वरमनन्तमनगकेतुम् । योगीश्वरं विदितयोगमनेकमेकं, ज्ञान-खरूपममलं प्रवदन्तिसन्तः ॥ २४ ॥ बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्, त्वं शंकरोऽसि भुवनत्रय-शंकरत्वात् । धाताऽसि धीर ! शिव-मार्ग-विधेविधानाद, व्यक्त त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥ तुभ्यं नमस्त्रिभवनातिहराय नाथ, तुभ्यं नमः क्षितितलामल-भूषणाय । तुभ्यंनमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥२६॥
For Private And Personal Use Only