________________
60
Ends. — (text) fol. 964
Kavya
श्रीकृष्णेति प्रणयपराणांतगाथाभिः सफलितवाचां ॥ मादृग्दीनोद्धरणत्रलानां ॥ कर्णानंदो विशतु सभायां ॥ १८९ ॥ कर्णानंदार्थको मुद्यभिधसुरससृट्टकिया संयुतोयं
कृष्णाष्टम्यां शकाब्दे गगनगगनबा ( णें ) दु संख्ये व्यतीते ॥ श्रीराधावल्लमां ह्येवुरुहपरिसरे ग्रंथ आविर्बभूव
श्रीवृंदा कानने...द्रसतृषितमतेः श्रीमतः कृष्णदासात् ॥ १९० ॥
Ends (comm. - fol. 974
t 50.
अयं कर्णानंदः कर्णानंदाख्यो ग्रंथः कृष्णदासात् सकाशात् आविर्बभूष प्रकटोजातः । कीदृशो ग्रंथः अर्थानां वामुदी चंद्रिका तद्वत्प्रकाशि अर्थ - कौमुदी सा अभिधा नाम यस्याः सा अर्थकौमुयभिधाशोभनं रसं बिभर्ति पुष्णाति सुरसभृत् । अर्थकौमुद्यभिधा चासौ सुरसभृच्च तादृशी या टीका तया संयुतः सहितः । कदा प्रकटकः । कृष्णाष्टम्यां । कस्मिन् वर्षे । गगनं बिंदु: गगनं बिंदु: बाणः पंच इंदुश्चंद्र एकं तत्संख्ये शकाब्दे शकनरपतेः संघ त्सरे व्यतीतेऽतिक्रांते सति । अंकानां वामगत्या । पंचदशशतानि भवति । कुत्र स्थले प्रकटः । वृंदाकानने । तत्रापि कुत्र प्रदेशे । श्रीराधावल्लभस्य श्रीहरि वंशेष्टत्वेन प्रसिद्धः श्रीमूर्तेः अह्यंबुरूहस्य पादपद्मस्य परिसरे संनिधौ । कृष्णदासात् । कीदृशात् । श्रीमतः विद्याविनयादिगुणसंपद्युक्तस्य । पुनः कीदृशात् । तद्रस तृषितमतेः तद्रसे श्रीराधावल्लभर से श्रीललितादिराधा प्रियसखीभोग्ये तृषिता तृष्णायुक्ता मतिर्मुर्द्धियस्य तस्मात् ॥
कर्णानंदाभिधो ग्रंथः कृष्णदासेन निर्मितः ।
तट्टीका च तदारब्धा श्रीप्रबोधेन चरिता ॥ १९० ॥
संवत् १६३४ वर्षे । शाके १५०० वर्त्तमाने कृष्णजन्माष्टम्यां श्रीकर्णानंदाख्यो ग्रंथष्टीका सहितः श्रीमतः कृष्णदासात् आविर्बभूव ॥ समाप्त इत्यर्थः ॥ छ ॥ शुभं भवतु ॥ ॥ कल्याणमस्तु ॥
संवत् १८३७ वर्षे वैशाखमासे कृष्णपक्षे अमावास्या बुधे भट्टप्राणनाथात्मजहरिनारायणेन आत्मपठनार्थे वा परोपकाराय लिखितोयं ग्रंथः । ॥ श्रीरस्तु कल्याणमस्तु ॥ ॥ लेखकपाठकयोः शुभं ॥ अंबिका जयतु | सर्वोस्कर्षेण वर्त्तते ॥ ५ ॥