________________
88
Jaina Literature and Philosophy
[68. व्याख्यारसप्रीणितभूरिसूप
श्वातुर्यवर्यास्तबिंदुकपः॥१३॥ जिनादिरवास्ति समुद्रसूरि
गुरुगणे(स्मिन्नथ विद्यमानः । यस्कीर्तिकांता ककुभां मुखानि
चुंबत्यपि प्राप सतीप्रसिद्धिं ॥१४॥ श्रीकीतिरत्नाभिधसूरयो(स्मिन्
गणे बभूवुर्भुवनप्रसिद्धाः। बाक्सिद्धिसल्लब्धिविशुद्धबुद्ध्या
दयो गुणाः कस्य मुदे न येषां?||१५॥ ज्ञातृत्वार्जवभावदुस्तपतपश्चारित्रततिक्रिया.
काठिन्यप्रमुखाश्चमत्कृतिकृतो लोकंपूणा पतुणाः। केषां नाद्भुतदायिनो(5)त्र गुणरत्नाचार्यवर्या अमी
जीयामुगु)कीर्तिरत्नपदवीशंगारहीरश्रियः ॥ १६॥ तेषां प्रसादादणुधीः प्रयत्न
मकार्षमस्मिन् गहने कवीनां। जंघालतां किं न जगद्विलंघने
धत्ते कुरंगो(s)पि मृगांकसंगः? ॥ १७ ॥ संसूत्रितं यदुत्सूत्रमत्र मुग्धधिया मया। तच्छद्धबुद्धिभिः शुद्ध कार्य मयि कृपापरेः॥१८॥ प्रत्यक्षरं गणनया ज्ञेयानि ज्ञैरनुष्टुभां।। छासप्ततिशतान्यस्यामेकषष्टयाधिकान्यपि ॥ १९॥ धाग्गुरू धव(ल)चंद्रज्ञानमंदिरसंज्ञको । शोधयामासतुर्यलादिमां लाक्षणिकोत्तमौ ॥२०॥ यावद् भूवलयं समुद्रनिलयं यावत् सुवर्णाचली
यावच्चंद्ररची नवीनमहसौ यावजिनाज्ञा शुभा। तापच्छायामिदं चिदंतहृदयैः पापल्यमानं बुध
भव्यानामनुवासरं हृदि चिदुत्पादाय संजायतां ॥ २१ ॥ इति श्रीऋषिमंडलवृत्तिः पूर्णा जाता ।। प्रशस्त्या सह सर्वग्रंथानं ७२९० अक्षर १२ शुभं भवतु ॥ ॥
संवत १६५५ इष मासि शितीतरपक्षे राका' विष्टाभूवासरे । श्री'हस्सरतरंगच्छे 'दिल्ली पतिसाहश्रीमदकब्बरप्रदत्त युगप्रधानपदवीधारकभीमज. जिनचंद्रमूरिविजयिनि । श्रीसागरचंद्रसरिसंताने । श्रीवा राजचंद्रगणि. विनेयजयनिधानगणिना(5)लेखि ॥ 'इंगरपुरे' शमस्तु नः सना । श्रीशांतये नमः॥
1 Letters are gone.