________________
10
Jaina Literature and Philosophy
[4. माह कृत्वेत्यादिना कृत्वा प्रकरणमेतदनेकांतजयपताकाख्यं यदवातं कुशलं । पुण्यं शुभयोगासेवनेन इह लोके मयेत्यात्मनिर्देशः । तेन कुशलेन कथं किं भवत्वित्याह मात्सर्यदुःखविरहात् । मात्सर्यदुःखविरहेण गुणानुरागी। गुणप्रमदसंगतो भवतु लोकः सर्व एवं प्रणिधानमेतदिदं चानुभूयमानाबस्योचितं तत्त्वस्तथार्थाभावे(s)पि कुशलाशयकारि आरोग्यबोधिलाभप्रार्थनाकल्पमिति विद्वद्भिः परिभावनीयं नमो वाग्देवतायै भगवत्यै समाप्तं चेदं अनेकांतजयपताकाख्यं प्रकरणं । कृतिर्धर्मतो जा(या)किनीमहत्तराचार्यश्रीहरिभद्रस्य टीका(s)प्येषा(s)वचूर्णिकापाया भावार्थमात्रावेदनी नाम तस्यैवेति
नमो(5)स्वनभियुक्तेभ्यो मंदधीभ्यो विशेषतः । - यत्प्रभावा(द) इयमपि ग्रंथकारत्वमागताः ॥ छ । इति श्रीमदनेकांतजयपताका समाप्ता॥ छ ॥ छ । छ ॥ छ ।