________________
222.]
A-Alamkara
257
Author.-Śeşacintāmaņi. Begins.
॥श्रीकृष्णाय नम ॥ ॥प्रेमाद्धार्द्धनिरीक्षणादनुदिनं यश्चुंबनालिंगनायो दंतक्षतसीत्कृतान्नखपदोल्लेखाद्वियोगाच्चयः यूनोः कोपि परस्परागतसखीसंभाषणाज्जायते श्रृंगारः स विभूतये भवतु मे लक्ष्मीनृसिंहाख्ययोः ॥१॥
अज्ञानहिरण्यकशिपोर्दलने साक्षान्द्रसिंह एव पर तमहं शेषमुपासे पितरं श्रीमन्नृसिहाख्यं ॥४॥ अतिविषमरसमंजर्या व्याख्यामेतां परोपकाराय । तनुते नृसिंहतनयः श्रीमान् चिंतामाणः शेषः ॥५॥ यद्यपि दुर्जनतोषा यैषा नस्यान्मया कृता टीका तडपि मन्मतिशुद्धिं सज्जनपादार्पिता करिष्यति हि॥६॥
Ends.
यन्मया जल्पितं बाल्याव्यक्तमव्यक्तमेव वा ।। कृपयैतदनुग्राह्यं साधुभिर्दीनवत्सलैः॥१॥ शेषावतंसश्रीशेषनृसिंहतनयः मुधीः। यूनां मनोविनोदाय मंजरी व्याकृति विधात् ॥२॥
इति श्रीश्रीसकलपंडितपटाग्रणीयश्रीमच्छेषवंशालंकारभूतविद्वज्जनद्वंदचुडामणिमरीचिपिंजरितचरणयुगलकलिशेषावतारश्रीमच्छेषनृसिंहतनयेन नृसिंहचरणोपसिना ब्रह्मपुरवासिना श्रीशेषचिंतामाणिना निर्मितो रसमंजरीपरिमलः समाप्तः।
संवत् १७५९ वैशाखमासे कृष्णे पक्षे तिथो त्रयोदश्यां चंद्रवासरान्धितायां राजारामेन लिपीकृतम् थीनाशूभट्टाय पठनार्थम् ॥ श्रीरस्तु ॥ कल्याणमस्तु ।
शुभं भूयात् ॥ References.-- Same as in No. 218.
33 [ A. S. N.]
..
.
.