________________
Alamkara, Samgita and Natya
संक्षेपतो हि बालानां श्लोकनिर्माणहेतवे । इति प्रसंगतः काव्यव्यवस्थापि निरूपिता ॥ ३९ ॥
इति काव्यव्यवस्थानिरूपणं ॥
रसादिष्वप्रयत्नेन बालब्युप्तत्तिहेतवे ।
विद्यारामेण विमला कृतेयं रसदीर्घिका ॥ १४० ॥
सुखावरोहे (:) रमणीयबंधैः ।
.सांपानकः पंचभिरछपयैः ॥
विनिर्मितायां रसदीर्घिकायां । रसान्मुख सत्पुरुषार संतु ॥ ४१ ॥ पजाख्ये ग्रामे प्रथममय (म) दावादनिकटे । निवासो यस्यासीत्तदुदयपुरेनंतर मथो ॥ ततश्व श्रीकोटाभिधनगर आजीवनवशा । दिमं विद्यारामः सः किल सुभगं ग्रंथमकरोत् ॥ ४२ ॥ अपि च ॥ ततो यस्पाभिजातः सहृदयहृदयो वेणिरामाभिधाने गीर्वाणाचार्यदेश्यो व्रजपतिरिति यत्ताततातोथ चाभूत् भट्ट यस्या को विशलनगरजब्राह्मणेषु प्रसूति विद्यारामेण तेनोदयपुरगृहिणा निर्मिता दीर्घिकेयं ॥ ४३ ॥ षट् व्योमाद्रिमही मितांक गणिते संवत्सरे वत्सले । ज्येष्टस्यासितसप्तमी भृगुदिने कोटाभिधाने पुरे ॥ एनां सज्जनरंजनाय परितः पूर्णा रसैदीर्घिकां । विद्यारामकविः स्वयं सुललितां पर्य्याप्तरूपां व्यधात् ॥ १४४ ॥ अणुमपि गुणजालं ये प्रहृष्यंति दृष्ट्वा । नियतमनाते हर्षमेष्यंति संतः ॥
मम किमु विधुरं चेत्यामरा न प्रसन्नाः । प्रकटति तु पुरैषां दुर्जनत्वं हितेन ॥ १४५ ॥ अपि च || इममभिनवबंधं मत्प्रबंधं निरीक्ष्य ।
हृदयदो ये ते भविष्यंति हृष्टाः ॥ न यदि पुनरसूया दूषिता चेत्प्रसन्ना । तदपि भवति तेषां यावदाश्र्वार्यमंतः ॥ १४६ ॥ अथास्य ग्रर्थस्य अनुक्रमणिका
मंगलाचरणं पूर्व प्रतिज्ञा प्रार्थना ततः ॥
ततश्व रससामान्यलक्षणं भावलक्षणं ॥ १४७ ॥
[ 2ró.