SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [387. श्रीवीरशासनसरोवरराजहंस श्री'चंद्र'गच्छसरसीरुहचंचरीकाः । सत्वाधिकत्वसकलार्जितसद्गणौधाः श्रीपूज्यसोमविमला गुरवो बभूवुः॥१॥ येषां पदक्षालनवारिणा हि ज्व(?)रादिरोगाः प्रशमंति नूनं । ते पूज्यपादा विजयंतु नित्यं गच्छाधिराजाः प्रकटप्रभावाः ॥२॥ तत्पट्टपूर्वाचलसप्तसप्तिः भाग्याधिको जंगमकल्पवृक्षः। गच्छाधिपः श्रीगुरुहेमसोम सूरीश्वरो राजतु साधुधुर्यः ॥३॥ तदीयगच्छे गुरुसंघवीर गीतार्थमुख्याः सकला बभूवुः । येषां करस्पर्शनतोऽपि मूर्खः . प्राज्ञो भवेत् सर्वकलाप्रधानः ॥४॥ तदीयशिष्योदयवीर एव सगधबंधेन हि शास्त्रमेतत् । कथाप्रबंधैः सरसं प्रधान निरूपयामास गुरुप्रसादात् ॥५॥ जीर्णशास्त्रानुसारेण ग्रंथोयं निर्मितो मया मिथ्या मे दुष्कृतं भूयान् न्यूनाधिक....सति ॥६॥ सार्द्धपंचसहस्राणि प्रत्येक श्लोकसंख्यया पार्श्वनाथचरित्रस्य ग्रंथमानं विनिर्मितं ॥७॥ वेदवाणर्तुचंद्राख्यसंख्ये वर्षे च प्रोष्टके । मासे च सितसप्तम्यां ग्रंथोऽयं निर्मितो मुदा ॥ ८॥ आचंद्रार्कमयं नंद्यान् वाच्यमानो बुधैः सदा । पार्श्वनाथप्रसादेन सातं भवतु वांछितं । संवत्चंद्रगजवेदबाण( १८४५ )मितिस्तपामासे असितेतरपक्षे ९ नवम्यां कर्मवायां(व्यां) ज्ञवासरे । संवत् १९०२ मिति फाल्गुण वद २ शुक्र(?)वारे समासम् ॥
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy