________________
670.]
1, 4 Malasatras
जगति महिमा हेमक्षोणीधरवयसो यशः
शशिजयकरं नाभूत्कस्याद्भ(द्भुताय मुनिप्रभोः॥१३॥..... तीये पट्टे सद्गुणगणमणिश्रोणिनिधयः
क्षमापीयूषांभोधी निधय उचिताचारविधयः। स्वभक्तेच्छापूर्तित्रिदशतरवो बुद्धिगुरवो
जयंति श्रीमंतो विजयिविजयाणंदगुरवः ॥ १४॥ तेषां 'तपा'गणपयोनिधिशीतभासां
विश्वत्रयीजनमनोरमकीर्तिमासा वाग्वैभवाधरितसाधुसुधासवानां
राज्ये चिरं विजयिनि व्रतिवासवानां ॥१५॥ इतव। शिष्याः श्रीविजयादिदानसुगुरोः सिद्धांतबारानिधेः
श्रीकांताः परतीर्थिकव्रजरजापुंजेकपाथोधराः। पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे
यैवैराग्यरतिं वितीर्य विरतिं चक्रे ममोपक्रिया ॥१६॥ विनेयास्तेषां च प्रमृमरयशःपूरितादशः
श्रुतं दत्त्वा मादृग्जडजनमहानुग्रहकृतः। महोपाध्यायश्रीमुनिविमलपादाः समभवन
भवोदन्वन्मज्जज्जननिवहबोहित्थसदृशः ॥ १७॥ वैरंगिकाणामुपकारकाणां
वचास्वनां कीर्तिमतां कवीनां। अध्यापकानां साधयां च मध्ये
दधुः सदा ये प्रथमत्वमेव ॥१८॥ तेषां शिष्याणुरिमां भावविजयवाचको()लिखद वृत्ति स्वपरावबोधविधये स्वल्पधियामपि सुखावगमां ॥१९॥ निधिवसुरसवसुधा १६८९ मितेत वर्षे श्री रोहिणी'महापुर्या। सोऽस्याः प्रथमादर्श स्वयमेव प्रापयसिद्धिं ॥२०॥ गुणगणसुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीयश्च । श्रीविजयहर्षकृतिविदधे साहाय्यमिह सम्यक् ॥२१॥ अनुसृत्य पूर्ववृत्ति(त्ती)लिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं माय कृत्वा कृपां कृतींद्रेः प्रकृतिसरलैः ॥ २२ ॥ श्रीशंखेश्वरपार्श्वप्रभुप्रभावात्प्रभूतशुभभावात् । आचंद्राके(के) नंदत वृत्तिरसौ मोदयंती ज्ञान् ॥ २३ ॥
7
A.S. N I...