________________
732.1
III. 4 Malasutras
स्नातस्याप्रतिमस्य 'मेरु' शिखरे शच्या (च्या) विभो (:) शैशवे । रूपालोकनविस्मयाहृतरसभ्रांत्या भ्रमच्चक्षुषा । उन्मृष्टं नयनप्रभाधवलितं क्षीरोदकाशंकया ।
वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्धमानो जिनः ॥ १ ॥ हंसांशा (सा) हतपद्मरेणुकपिशक्षीरार्णवांभोभृतैः ।
कुंभैरप्सरसां पयोधरभरप्रस्पर्द्धिभिः कांचनैः । येषां 'मंदर' रत्नशैलशिखरे जन्माभिषेकः कृतः ।
सर्वैः सर्वमुरासुरेश्वरगणैस्तेषां त (न)तोऽहं क्रमान् ॥ २ ॥ अर्हकप्रसूतं गणधररचितं द्वादशांगं विशालं ।
चित्रं बह्वर्थयुक्तं मुनिगणवृषभैर्द्धारितं बुद्धिमद्भिः । मोक्षाग्रद्वार भूतं व्रतचरणफलं ज्ञेयभावप्रदीपं ।
भक्त्या नित्यं प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारं ॥ ३ ॥ निष्पंकव्योमनि (नील (युति) मलसदृशं बालचंद्रा भदंष्ट्रं । मत्तं घंटारवेण प्रसृतमदजलं पूरयंतं समंतात् । आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी ।
यक्ष (क्षः) सर्वानुभूतिं (ति) दि(र्दि ) शतु मम सदा सर्वकार्येषु सिद्धिं ॥ ४ ॥ इति श्रीषडावश्यकं संपूर्ण । संवत् १९४६ सुंदरलालका ।
Reference.
145
All the sutras given here seem to be published in one or the other editions of Pañcapratikramaņasūtras mentioned in No. 730.
षडावश्यकसूत्र
A
Sa dāvaśyakasūtra
871. 1892-95.
No. 732
Size.– 8 in. by 42 in.
Extent.- 27 folios; 7 lines to a page ; 20 letters to a line. Description.— Country paper somewhat thick, rough and white ; Jaina Devanagari characters; quite bold, very big, perfectly 19 [J. L.P.]