________________
304
Jaina Literature and Philosophy
[ 617.
तत्र श्रुतधर्म संपत्समन्विता एव प्रायश्चारित्रधर्माभ्युपगमयथावत्परिपालनसमा भवतीति प्रथमतस्तत्प्रदानमेव न्याय्यं तत्र परमाहत्यमहिमोपशोभितभगवद्वर्धमानस्वामिनिवेदितमर्थमवधार्य गणभृतसुधर्मस्वामिना तत्संतानवर्तिभिश्चान्यैरपि सूत्रप्रदानमकारि । न च सूत्रादविज्ञातादभिलिखि(षि)तार्थावाप्तिरुपजायते । ततः प्रारंभणीयः प्रवचनानुयोगः स च परमपदप्राप्तिहेतुत्वात् श्रेयोभूतः । श्रेयांसि च बहुविघ्नानि भवति । यत उक्तं
श्रेयांसि बहुविध्नानि भवंति महतामपि ।
अश्रेयसि प्रवृत्तानां क्वापि यांति विनायकाः ॥' इति ततोऽस्य प्रारंभ एव सकलप्रत्यूहोपशमनाय मंगलाधिकारे नंदिर्वक्तव्यः
अथ नंदिरिति कः शब्दार्थः उच्यते etc. Ends.- fol. 164 अथवा कंचिन्मंदमतिविनेयमाधकृत्य तदुक्तं द्रष्टव्यम् । न पुनरेष
एव श्रवणविधिनियम उद्घटितज्ञविन(ने)यानां सकृत् श्रवणत एवावशेषग्रहणदर्शनादिति कृतं प्रसंगेन । सेतमित्यादि । तदेतत् श्रुतज्ञानं तदेतत् परोक्षमिति ।। छ ।
नंद्यध्ययनं पूर्व प्रकाशितं येन विषमभावार्थम् । तस्मै श्रीचूर्णिकृते नमोऽस्तु विदुषे परोपकते ॥१॥
मध्ये समस्तभूपीठं यशो यस्याभिवर्द्धत ।।
तस्मै श्रीहरिभद्राय नमष्टीकाविधायिने ॥२॥ वृत्तिर्वा चूर्णिा रम्या( 5)पि न मंद(मे)धसां योग्या । अभवदिह न तेषामुपकृतये यत्न एष कृतः।३॥ बह्वर्थ नंद्यध्ययनं तित्थए(?) विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिाद तेनाश्नुतां लोकः ॥ ४ ॥
अर्हतो मंगलं मे स्युः सिद्धाश्च मम मंगलम् ।
साधवो मंगलं सम्यग् जैनो धर्मश्च मंगलम् ॥ ५॥ इति श्रीमलयगिरिवरचिता नंद्यध्ययनटीका संपूर्णा ग्रंथायं ७७३२
शिवमस्तु सव(वोजीवानां । छ । Reference. - Published. See No. 608. For an additional Ms. see
Limbdi Catalogue No. 1500.
1.
See p. 302.