________________
382.]
VII. Supernumerary Prakirnakas
339
तेषामुभौ विनेयौ देवेंद्रगणींद्र-विजयचंद्राह्वौ ४६ , श्रीदेवेंद्रगुरोरपि । शिष्यौ द्वौ भूतलख्यातौ । ३०।: श्रीविद्यानंदगणी । प्रथमोऽन्यो धर्मघोषसूरिरिति ४७ अथ सोमप्रभसूरि ४८ स्तस्य विनेयास्तु चत्वारः । ३१ श्रीविमलप्रभसूरिः १ श्रीपरमानंदमूरिगुरुराजः २ श्रीपद्मतिलकसूरि ३ । र्गणतिलकः सोमतिलकगुरुः । ४ । ३२ ॥ श्रीसोमप्रभसूरेः । पट्टे श्रीसोमतिलकसूरींद्राः ४९ । तेषां त्रयो विनेयास्तत्र श्रीचंद्रशेखर प्रथमः । ३३ । सूरिजयानंदोऽन्यस्तृतीयका देवसुंदरा गुरवः। श्रीसोमतिलकसूरेस्त एव पट्टांबरादित्याः ५०।३४। तेषां च पंच शिष्याः प्रथमे श्रीज्ञानसागरा गुरवः । कुलमंडना द्वितीयाः । श्रीगुणरत्नास्तृतीयाश्च । ३५। तुर्या अहार्यवीर्या गुरवः श्रीसोमसुंदरप्रभवः । आसंश्च पंचमा अपि गुरवः श्रीसाधुरत्नाहाः।३६। श्रीदेवसुंदरगुरोः पट्टे श्रीसोमसुंदरगणींद्राः॥ ... अभवन् युगप्रधानाः ५१ शिष्यास्तेषां च पंचैते । ३७॥ श्रीमुनिसुंदरसूरिः १ श्रीजयचंद्रो गुरुर्गरिमधाम । २। श्रीभुवनसुंदरगुरु ३ जिनसुंदर४ सूरि-जिनकीर्ती ५।३८॥ श्रीसोमसुंदरगुरोः । पट्टे मुनिसुंदरो युगप्रवरः ५२ । तत्पट्टमुकुटरत्नं स रत्नशेखरगुरूत्तंसः । ३९ । श्राद्धविधिसूत्रवृत्त्याद्यनेकसग्रंथनिर्मितिपटिष्ठः ॥ ५३। लक्ष्मीसागरसूरिस्तत्पदमंडनमतिगरिष्ठः । ५४।४० आसीत्तदीयपट्टे गुरुर्गुणी सुमतिसाधुसूरींद्रः । ५५ श्रीहेमविमलसूरिस्तदीयपट्टे गुरुः समभूत् । ५६ । ४१ अथ दुःषमोत्थदोषात् । प्रमादवशचेतसो ममत्वभृतः । अभवन्मुनयः प्रायः । स्वाचाराचरणशैथिल्याः । ४२ किंचिन्निरीक्ष्याप्यसमंजसं तत् ।
शास्त्रार्थशून्यैः प्रतिभोज्झितैश्च । 'लंका'द्यनादेयमतांधकूपे ।
ऽप्यंधौरवाच्चैः पतितं प्रभूतैः । ४३ ।
इतश्व
श्रीहेमविमलमूरिर्दूरीकृतकल्मषः स सूरिगुणं । ज्ञात्वा योग्यं तूर्ण । धर्मस्याभ्युदयं संसिदथे । ४४