________________
338
jaina Literature and Philosophy
1382.
हरिभद्रमित्रमभवत् । सूरिः पुनरेव मानदेवगुरुः २८ विबुधप्रभश्च सूरिः । २९ । तस्मात् सूरिर्जयानंदः ३० ॥१५ । श्रीमद्रविप्रभगुरु । ३१ गरिमागारं गुरुयशोदेवः । ३२।
द्युम्नः प्रद्युम्नाभिधश्च सूरिस्ततो(s)प्यासीत् । ३३ ॥ १६ । विहितोपधानवाच्यग्रंथस्तस्माच्च मानदेवाख्यः ।।
सूरिः समजनि भूयो मानवदेवार्चितः सततं । ॥१७ ॥ केचिदिदं सूरिद्वयमिह न वदंति । तस्माञ्च विमलचंद्रः सहेमसिद्धिर्बभूव सूरिवरः । ३५ । उद्योतनश्च सूरिरितदुरितांकुरव्यूहः । ३६ ॥१८ अथ युगनवनंद९९४मिते । वर्षे विक्रमनृपादतिक्रांते । पूर्वावनितो विहरन् । सोऽर्बुद सुगिरेः सविधमागातू । १९ तत्र च टेलीखेटक । सीमावनिसंस्थवरतरवटाधः । सुमुहूर्ते स्वपदे(s)ष्टै । सूरीन स स्थापयामास । २० ।
युग्मं॥ ख्यातस्ततो गणो(5)यं 'वट'गच्छाहो(ड)पि 'वृद्ध'गच्छ इति । अभवत्तत्र प्रथमः । सूरिः श्रीसर्वदेवाह्वः । ३७॥२१ रूपश्रीरिति नृपतिप्रदत्तबिरुदो(3)थ देवसूरिरभूत् । ३८ ।
श्रीसर्वदेवसूरिज॑ज्ञे पुनरेव गुरुचंद्रः ३९ । २२। ... जातौ तस्य विनेयौ सूरियशोभद्र-नेमिचंद्राद्वौ । ४० ।
ताभ्यां मुनींद्रचंद्रः । श्रीमुनिचंद्रो गुरुः समभूत् । ४१ । २३ । . श्रीअजितदेवसूरिः प्राच्यस्तस्माद् बभूव शिष्यवरः। .
वादीति देवसूरिद्वितीयशिष्यस्तदीय इह ४२ । २४ ॥ । तत्रादिमाद् बभासे । गुरुर्विजयसिंह इति मुनिपसिंहः । ४३ ।
तस्याप्युभौ विनेयौ । बभूवतुर्भूमिबिख्यातौ । २५ । - ख्यातस्तत्र 'शतार्थी सोमप्रभसूरिपुंगवः प्रथमः ।
श्रीमणिरत्नगणींद्रो । गुणगणमणिनीरनिधिरन्यः । ४४ । २६ शिष्या मणिरत्नगुरोस्ततो जगच्चंद्रसूरयो(5)भुवन् । भूतलविदिता नूतनवैराग्यावेगभाजस्ते । २७ । श्रीचैत्रगणांभोधौ विधूपमाद् देवभद्रगणिमिश्रात् । उपसंपन्नाश्चरणं विधिना संवेगवेगवतः ॥ २८ । 'आचामाम्ला ख्यतपो(s)भिग्रहवंतो व्यधुर्विधूतमलाः शरकरटितराणि १२८५ वर्षे । ख्यातस्तत इति 'तपागच्छः । ४५।२९।
विशेषक।