________________
198.]
183
III. 12 Upangas श्रीमन्महे महेभ्यश्रेणिसमृद्धेऽत्र 'भेलडी'नगरे । पूर्व पाल्हणसिंहः 'प्राग़वंश'(शा)वतंसकः समऽभूत् ॥१॥ तत्रैव सुजनरंजन । जिनभवनविधापनकविधिना यः । सुकृतार्थी सुकृतार्थी । चकार निजमर्जितं वित्तं ॥२॥ पाल्हणदेवीनाम्नी । गृहिणी स्पृहणीयसद्गुणा तस्य । निजनिर्मलतरपक्ष । द्वितययुता राजहंसीव ॥३॥ डूंगरनामा तनय । स्तयोरभूद्भरिगुणगणोपेतः । सारूः सा रूपवती । सती च सीतेव ययुवती ॥४॥ तत्तनयो प्रत्तनयो विशिष्टविनयावुभौ शुभौ जाती। प्रथमः सीधरनामा सोभाक सो(शोभते ह्यपरः ॥५॥ निर्मलदृष्टिनिरीक्षण । विशुद्धनाणकपक्षिणपराभ्यां । याभ्या मणहिल्लपुरे' परीक्षकत्वाभिधा दधे ॥६॥ सीधरवधुकपूरीर्गुणैकपूरैः प्रपूरितदिगंता। विनयविवेकविचारस्फारसदाचारशृंगारा ॥७॥ श्रीसीधर (6) प्रतिष्ठां कथं न लभते परीक्षकप्रवरः । श्रीजिनपतिप्रतिष्ठां विधापयामास विधिना याः ॥९(८१)। तत्तनयपासवीरो गुणगंभीरः परीक्षकोटीरः यत्कारितगृहचैत्यं कस्य न चित्तं चमत्कुरुते॥१०॥ नवरदंतभ्रमरी । गजाऽश्वरथनरसुतोरणादियुतं । संप्रत्यपि चैत्यमिदं । नृणां प्रीणाति चित्तानि ॥११॥ पूतलिनाम्नी तस्य च भार्या शुभकार्यकरणनिष्णाता। देवगुरुनिबिडभक्तिव्यक्तिप्रतिवासितस्वांता ॥१२॥ जिनशासनप्रभावकपितृपक्षस्व(श्व)सुरपक्षसंपूर्णा । शोभासौभाग्यवती । पतिव्रता पूतलिर्जयति ॥१३॥ पुत्रास्तस्यास्त्रयो()मी रामादेवाख्य(?क)वर्द्धमानाख्याः । विश्वोपकारकरणप्रगुणाः सगुणा विराजते ॥१४॥ कीकी-मानीनाम्ना । भार्यायुगलं विभाति रामस्य । देवाकस्य रमाई। हांसीरिह वर्द्धमानस्य ॥१५॥ देवस्य वर्द्धमानस्य पुत्रौ जातौ क्रमादिमौ। जगपालसूरचंदौ(द्रौ) सूरचंद्रसमप्रभौ ॥१६॥
ततश्च श्रीसूरीश्वरसोमसुंदरगुरुप्रष्ठः प्रतिष्ठा : ]स्पदं ।
तत्पट्टे मुनिसुंदराख्यगुरवः सौभाग्यभाग्यालया(6)।