________________
C. Hemacandra राणीरिति मृदुवाणी कांता जातास्य मेरुमूर्तिरिव । संनदना सुरमणीरमणीयाभीष्टकल्पलता ॥६॥ चतुःसंख्यास्तयोः पुत्राः श्रीदामोदरतासुताः । सहानवासनायुक्ताः पुरुषोत्तममताः श्रुताः॥७॥ . तेष्वायो गुणवानियहरपुरे प्रोत्तुंगमाद्याहतो यः प्रासादमचीकरत् स विनयी गोविंदसंघाधिपः द्वतीयीकसुतोस्ति वीसल इति ख्यातस्तृतीयः पुनविज्ञष्ठक्कुरसिंह इत्यथ गुणी तुर्यस्तुहीराभिधः॥८॥ श्रीमदेउलवाटकेथ निवसञ् श्रीलक्षभूमीपतेमान्यः पुण्यवतां सुवर्णमुकुटः संघाधिपो वीसलः । भस्ति स्वस्तिमयावदातचरितश्चातुर्यगभीरतासम्यक्तास्थिरतादिबंधुरगुणश्रेणीमणीरोहणः ॥९॥ यात्रा जैनविहारकारणगुरूपास्यादिपुण्यैः सदा गण्यैराहतशासनं प्रतिदिनं प्रोद्भासयनकधा मित्यं सत्रगृहप्रवर्तितमहादानरुदग्रायुधैयो दुर्भिक्षविपक्षमक्षतजयोऽजपीन्मनीषी क्षणात् ॥१०॥ शुद्धां शीलकलां कलामिव विधोरीशोत्तमांगस्थितां के संघाधिपवीसलस्य सकलां व्याख्यानुदक्षा अपि । मूर्त्या यः कमनोपि निर्मितमनोरोधोवरोधो निजं मुक्त्वा जन्मत एव नान्यवनितासंसर्गमार्ग गतः॥ ११॥ श्रीधर्मोत्कटमेदपाटसचिवश्रीरामदेवांगजा मेलादेविसमुद्भवाद्भुतलसच्चातुर्यसौंदर्यभृत् । शीलश्रीकलिता सुधर्मनिरता लज्जागुणालंकृता खीमाईरिति विश्रुतास्ति दयिता तस्य प्रशस्या गुणैः ॥ १२॥ तस्यादिमः सकलधर्मधुराधुरीणो धीराह्वयो निजकुलांबरपूर्णचंद्रः। पुत्रोस्ति चंपक इति प्रथितो द्वितीयः पुत्री नु धर्मिणेरिति प्रतिताभिधाना ॥१३॥
इतश्च ।
षट्तर्कीपरितर्ककर्कशधियः साहित्यविद्यापथे पारीणप्रतिभातिनागमसरिन्नाथप्रथागस्तयः । त्रैलोक्याद्भुतभागधेयकलिताः सौभाग्यभंगीवृतास्तत्तारकृतपसाजितार्कमहसा देदीप्यमानाः सना ॥१४॥