________________
A.
Katantra
संज्ञाश्च परिभाषाश्च प्रथमे पाद आदिशेत् । द्वितीये स्वरसन्धि च तृतीये तनिषेधनम् ॥ वैयञ्जनं चतुर्थे च सन्धि वैसर्गिक परे । षष्ठे प्रथमवश्वैवं सन्धिप्रकरणं जगौ ॥ नाम्न आये स्वरान्तस्य लिङ्गस्य स्यादिनिर्णयः । स्वरान्तब्यअनान्तस्य द्वितीये युष्मदस्मदोः । तृतीयेपि त्यदानीनामित्थं नामपदस्थितिः । चतुर्थे कारकस्येह विनियोगोथ पंचमे ॥ समासवृत्तिस्सिद्धस्य तद्धितेष्वपि वर्तनम् । षष्ठेथ सप्तमे प्रोक्ता लिङ्गात्स्त्रीप्रत्ययात्वियाम् ॥ इदं नामपदं सिद्धं संक्षेपात्समुपादिशत् । तदनन्तमतो वित्तं वाङ्मयस्योपबृंहणम् ।। माख्यातेष्वादितः कालपुरुषार्थनियोजना । त्यात्यु(? °द्यु)देशे द्वितीयेपि सनादिप्रत्ययान्तता ॥ ततो विकरणा आत्मने परस्मै विनिर्णयः । तृतीयेभ्यासकार्याणि चतुर्थे संप्रसारणम् ॥ आदेशागमलोपादि पंचमे तु गुणागुणाः । तन्त्रं वार्णपदं षष्ठं सप्तमे सेडनिट्कता || सङ्करोष्टम इत्येवमाख्यातिकपदक्रमः । स चिन्तनीयो धात्वर्थकालभेदाद्विचक्षणः ॥ यथासौत्र जयत्येको यः परोपकृतौ रतः। योपि धन्यो धनं धत्ते सोत्यन्तं सुखमश्नुते ॥ कृतस्तन्यादयस्सोपपदानुपपदाश्च ये । लिङ्गप्रकृतिसिद्धार्थ ताञ्जगौ शाकटायनः ॥ तत्राद्यपादे कृत्तन्त्रं पञ्चपाद्यां कृतां विधिः । सोपि साधनकालादिविभागेनेति निर्णयः॥ स्याद्यन्तत्वात्सुसिद्धत्वान्न तान्सूत्रकृदब्रवीत् । दिश(शा)न्वदीदृशद्वाहिवन्सिनिष्टायुदीरणम् ॥ धातोः परे कृतो वुण्तृजादयस्ते च कर्तरि । भादौ तव्यादयस्तेषां कृत्यास्ते भावकर्मणोः । अणादयः सोपपदास्ते च कालत्रये मताः । भूते कन्स्वादयो वर्तमाने शन्तृकनादयः ।। उणादयः स्युर्बहुलं ये ते शास्त्रान्तरे स्थिताः । भविष्यति स्यत्स्यमानक्रियार्थोपपदा मताः ॥