________________
286
Grammat
रणरिपुगणकालो वैजलः क्षोणिपालो जयति जगति दाता सर्वकर्मावधाता ॥१॥ चंद्रावति(ती)वदनचंद्रचकोरधीरः श्रीविक्रमार्कतनयो नयतंत्रवेत्ता । चौहानवंसतिलकः पटनाधिनाथो राजा परं जयति वैजलदेवनामा ॥२॥ रामो मेभिहितं करोतु सततं रामं भजे सादर रामेणापहृतं समस्तदुरितं रामाय दत्तं धनं । रामात्मुक्तिरभीप्सिता सरभसं रामस्य दासोस्म्यहं रामे रंजतु मे मनः करुणया हे राम मां पालय ॥३॥ श्रीमद्वैजलदेवेन रामभक्तिरतात्मना । इति चिंतितमेकांते कदाचित्तिष्ठता सता ॥४॥ अस्थि वज्रमयं यस्य यस्य चर्म च वर्मवत् । स दधीचिः स कर्णश्च नातिष्ठत्सुचिरं भुवि ॥५॥ न संप्रति शरीराणि न राज्यानि धनानि च । तेषां स्वर्गगतानां हि कोतिर्जयति भूतले ॥६॥ ..... इह लोके सुख येन परलोकेपि जायते । तदेव प्रत्यहं कर्म कर्त्तव्यं दूरदर्शिभिः ॥८॥ संसारांबोधितरणं रामनामानुकीर्तनम् । रामनामान्विता तस्माक्रियते प्रक्रिया मया ॥९॥ बालकानां प्रबोधाय तोषाय विदुषामपि । माकल्पमपि संसारे कीर्त्यवस्थापनाय च ॥ १०॥ चिंतयनिति निर्यातः क्रीडतं श्रीहिराधरम् । श्रीमान्वैजलभूपालो विलोक्येत्यब्रवीत्सुतम् ॥ ११ ॥ विद्यया द्योतते राज्यं विद्यया जीयते रिपुः । विद्यया जायते कृत्यं विद्यया लभते यशः ॥ १२ ॥ दधीचिर्दानवीरोभूदयावीरः शिविर्नृपः । हवीरो युद्धवीरोभूनिदर्शनममी त्रयः ॥ २१ ॥ ... ... . एवं वदंतं पितरं विनीतः श्रीहिराधरः । कृतांजलिपुटो भूत्वा सवीडमिदमब्रवीत् ॥ २५॥ ....." श्रवणांजलिना पीतमुपदेशामृतं मया । भाज्ञाप्यतां देव मया किमिदानीमधीयताम् ॥ २७॥ श्रीमान् वैजलभूपालः श्रीहिराधरवालकम् । सुप्रियं परितुष्टात्मा सुतमित्यवदत्पुनः ॥ २८ ॥ .....