________________
E. Sarasvata
213
तत्सुतः सुकृतशोभितसंपत् प्रीणितावनिवनीपक आसीत् । वैभवेप्यविकृतो भुवि मूर्तः पुण्यराशिरिव यांपध साधु ॥ ८॥ भभूत् कुटुम्बस्थितिभारधारिणी मदी यदीया सहधर्मचारिणी । सदानदानव्रतदीक्षया जनं कुशेशयाकारशया पुपोष या ॥९॥ तनंदनौ सुमतिसाधितपौरुषार्थावापन्निमग्नजनतोद्धरणे समर्थौ । ख्यातौ गुणैर्जगति जीवनमेघसंज्ञावाज्ञावशीकृतनृपो सकृपावसूतां ॥१०॥ श्रीविलासवति मंडपदुर्गस्वामितः खलचिसाहिगयासात् । प्राप्य मंत्रिपदवीं भुवि याभ्यामर्जितोर्जितपरोपकृतिश्रीः ।। ११ ॥ जीवनो भुवनपावनकीर्तिः मंत्रिभारमनुजे विनिवेश्य। ब्रह्मवित् स जगदीश्वरपूजाकौतुकेन समयं समनैषीत् ॥ १२ ॥ नमदवनसमर्थस्तन्त्र (v.1 त्व)विज्ञानपार्थः
सुजनविहिततोषः श्रीनिधि/तदोषः। अवनिपतिशरण्यात प्रौढधीमंघमंत्री
मफरलमलिकाख्यां श्रीगयासादवाप ॥१३॥ पतिव्रता जीवनधर्मपत्नी धन्या मकूनाम कुटुंबमान्या।
श्रीपुंजराजाख्यमसूत पुत्रं मुंजं च तौ स्वैश्वरितैः पवित्रं ॥ १४ ॥ जयति मदनमुग्धः सज्जनप्रेमसांद्रः
सुगुणमणिसमुद्रः कीर्ति विद्योतचंद्रः। नयविनयविनिद्रः पुण्यलक्ष्मीसमुद्रः
समरसमयरुद्रः पुंजराजो नरेंद्रः ॥ १५ ॥ यस्याभाति सभा तिरस्कृतमदप्रप्रभावोद्धरक्षोणीमंडनमंडलेश्वरमहाराजन्यमान्यान्विता। विद्यावृंदविनोदमोदविभवद्रोमांचविद्वद्वचोजाग्रद्रूपसरस्वती निवसतिर्ल (V. 1. विनमतिर्ल)क्ष्मीविलासायिता ॥१६॥ अनुजे गुणवत्युदारचित्ते गुरुदेवद्विजभक्तिभाजि मुंजे। . य उपाहितराजकार्यभारः प्रभुतासौख्यमनाकुलं बिभर्ति ॥ १७ ॥ रसोल्लसितया गिरा चतुरचित्तमानंदयन्
कलासु सकलासु यः कलितकेलिकौतूहलो। विमत्सरतया दधनिखिलशाक्ततत्वज्ञतां
करोति करुणाकरो वर(v. 1. नि)मनीषिसंम्मानतां ॥१८॥ प्रतिग्र(? गृहमभिगम्य स्वर्णनिष्कान्विताना
मुपचितकुतुकानां मोदकानां प्रदानैः । विदलितदुरवस्थान् लक्ष्यसंख्यान् गृहस्थान्
अतुलितमहिमा यः क्षोभकालेऽभ्यनन्दत् ॥ १९ ॥ भनिवारितवांछितार्थदानैरतिदुर्भिक्षबुभुक्षयादितानां । गणशः समुपेयुषां जनानामकरोज्जीवितरक्षणं यदेकः ॥ २० ॥