________________
Grammar
श्रीवर्धमानः संसिद्धयै वर्धमानमहोदयः । स्ताद्विश्वविश्वविश्वेशशक्रचक्रस्तुतक्रमः ॥२॥ हेतवे श्रेयसामेव पराय परमेष्ठिने । विधूतरागद्वेषाय कारुण्यनिधये नमः ॥३॥ सारदां सारदां स्मृत्वा शारदेंदुतनुप्रभां। कर्पूरपूरन्यत्का(का)रकारिकीर्तिविराजिनीम् ॥४॥ गुरुं श्रीविजयानंदं विजयानंददायकं । नत्वा गौरिगुरुगिरिप्रावणोरगुणेर्गुरुम् ॥५॥ बालानां बुद्धिबोधाय विनोदाय च वाग्मिनाम् । संक्षिप्तयुक्तिभिर्युक्ता गंभीरार्थगरीयसी ॥६॥ विचक्षणचचकोरौघ(?)हर्षोत्कर्षविधायिनी । व्याख्या सुधाश्रा(स्रा?)विणी च पदार्थानां प्रकाशिनी ॥७॥ भज्ञानोप्रतमस्तोमप्रध्वंसनपटीयसी। सबोधागाधजलधिलोलकल्लोलवर्धिनी॥८॥ शब्दार्थचंद्रिकाख्येयं शब्दशास्त्रेदुचंद्रिका ।
सारस्वताद्यसत्पद्यद्वयवृत्तिर्वितन्यते ॥९॥ चतुर्भिश्च कलापम् ॥ '. निजानुजज्ञश्रीसिद्धिविजयस्याग्रहान्मया।
क्रियमाणः प्रयत्नस्तान्मंदधीबोधतत्त्यु(?)ली ॥१०॥ इह हि किल निश्शेषसविशेषस्फूर्जद्वयंपदार्थसार्थपरमार्थजिज्ञासूनां शिशूना सम्यक् शब्दव्युत्पत्त्यवबोधाय स्वकीयकमनीयकुशाग्रप्रतिमनिःप्रतिमप्रतिभाप्रभाप्राग्भारपराभूतप्रबर्हबर्हिर्मुखाचार्या मानाभिमानैदंयुगीनचञ्चञ्चतुरजनघेतश्चमत्कारकरणाय च श्रीसारस्वत्यशब्दानुशासनादिमवृत्तद्वितयस्य व्याल्या संहितादिभेदेन षोढा प्रस्तूयते यदुक्तं पूर्वसूरिभिः शास्त्रान्तरे -
संहिता १ च पदं २ चैव पदार्थः ३ पदविग्रहः ४
चालना ५ प्रत्यवस्थानं ६ व्याख्या तंत्रस्य षड्विधा । and ends - इति षष्ठो भेदः । इत्यलं प्रपंचेनेत्याद्यर्थयोजना ।
चंचद्वर्णसुसंहिता स्फुटपदा नानापदार्थप्रदा विज्ञश्लाधितविग्रहा समुचितस्थानं स्फुरञ्चालना । व्याख्या कामगवी चिरं विजयतां सत्प्रत्यवस्थानयुक् स्निग्धं गोरसमर्पयत्यनुदिनं हृद्यस्य पयस्य मे ॥१॥