________________
192:
Grammar
पूर्व सोरंभनानि प्रथितगुणगणे शूकरक्षेत्रवर्ये देवानां कार्यसिद्ध हरिरतुलबलः श्वेतवाराहरूपः । भूत्वा कृत्वा च कार्यं स्वतनुमथ जहौ योगतीर्थे च यत्र प्राप्तो रामश्च तीर्थं तदिह पथि सरिद्दीपमालोक्य तीर्थम् ॥ पितुरस्थीनि निक्षेष्तुं गंगायामगमत्पुरा । रामस्तु शौकरं तीर्थं दृष्ट्वा हर्ष तदा गतः ॥ कंपिलायां सुहृद्वर्गं भ्रातृभ्रातृजमंडितं । गोत्रजैश्च समायुक्तं दृष्ट्वा रामो पुरोगमत् ॥ गंगातटे षोंडपुरं विशालं प्रासादमालाशुभ हट्टमा (? गं) । संराजते तत्र गतश्च रामस्तत्तीर्थयात्रां कृतवान्सपुत्रः ॥ श्रीमत्खोडाभिधानाच्छुभतरनगरात्प्रस्थितः पादचारः सिद्धेन श्रीरा ( ? ) मूर्त्या दिनकर विदुषा श्रीमहाविष्णुनेव । युक्तो लक्ष्मीधरेण प्रशुचिमतिमता पुत्रवर्येण तद्वद् रामो विद्वान् कवींद्रोभुजपुरनगरं प्राप्तवान् श्रीविशालं ॥ रामस्तत्तीर्थयात्रां च गंगाया दक्षिणे तटे । कृतवान्य (स्य ) पुत्रौ द्वौ लक्ष्मीधरजनार्द्दनौ || भुजपुरपुरवर्य्यात्प्रस्थितो रामविद्वान्
कतिचिदपि निवासान्धर्ममध्ये च कृत्वा । विधिवदतिविधिज्ञः स्वर्धुनीतीर्थयात्रा -
मकृत सुतयुतोसौ हृष्टचित्तः पवित्रः ॥ ब्रह्मावर्त्ती स्थानमासाद्य रामो वाल्मीकीयं चाश्रमं तत्र दृष्ट्रा । सीतास्थानं रामचंद्रस्य यज्ञस्थानं हृष्टः स्वर्धुनीतीरभूमौ ॥ ब्रह्मावर्त्तात्प्रस्थितो रामविद्वानांगातीरे तीर्थयात्रां च कुर्वन् । दृष्ट्वाल्हारे (?) श्रीकनोजं पुरं वै प्राप्तः साधुस्तत्र डालाम (रं) च ॥ डालामर(? 'रात् )साधुपुरात्प्रयातो रामः सपुत्रोमितधैर्ययुक्तः । गंगातटे साधुविराजमानं करापुरं नौगतिना ह्यगच्छत् ॥ करापुरात्प्रस्थित एव विद्वानामः प्रयागं गतवान्सपुत्रः । यत्र त्रिवेण्याः प्रतिभाति संगमस्तत्राकरोत्तीर्थविधि विधिज्ञः ॥ प्रयागात्प्रस्थितो रामो विद्वान्पुत्रान्वितः शुचिः । पंचभिर्दिवसैः प्राप्तः पुरीं वाराणशीं शुभां ।। काशीं प्राप्य विधानतः सुतलसल्लक्ष्मीधरेणान्वितो गंगायां मणिकर्णिकातटवने स्नात्वा च विश्वेश्वरं । संपूज्य प्रतिवासरं समकरोद्यात्रां सुखेनान्वितो यो रामः कविशेखरो बुधमणिः सद्भोजयित्वा यतीन् ॥ काशीयात्रां च कृत्वा विधिवदमलधीः पुत्रयुक्तो गयां तां पित्रादीनां च मुक्त्यै जिगमिषुरनघः प्रस्थितः सुप्रसन्नः ।