________________
C. Hemacandra
161
नात्मकां हैमलघुप्रक्रियां चिकीर्षुग्रंथकारः शिष्टाचारप्रतिपालनाय विघ्नविधाताय च मंगलाचरणं प्रेक्षावत्प्रवृत्तयेभिधेयसंबंधाधिकारिणश्च प्रथमपद्येन
प्रकटयति । प्रणम्येति ॥ Ends - The text : after the 5th verse of the area as in No. 546
of 1886-92 [ =Serial No. 140 above ] we have :
कांतिविजयाख्यगणिनः पठनकृते कृतधियः सतीर्थ्यस्य विहितोयं यत्नः स्ता(स्याओत्सफलः सर्वोपकारेण ॥६॥ प्रत्यक्षरं गणनया संख्येतस्य मयोदिता ।
अनुष्टुभां चतुस्त्रिंशत्सहस्त्री(?) जयताश्चिरं ।। ७॥ The Com. - इति गुरुनामोच्चारणमस्य हैमप्रेक (प्रकाशस्य) पर्यतमंगलमिति ज्ञेयं ।
महतो मंगलं सिद्धा मंगलं शुद्धचिन्मयाः । साधवो मंगलं धर्मः श्रीजिनोत्तोस्तु मंगलं ॥ छ । प्रशस्तेः अष्टापि(?) आर्याः स्पष्टाः॥ यां शिष्योद्भुतकीर्ति(?) विजयश्रीवाचकाहणे (हर्मणे) राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तौ सिद्धिर(रि )मामविंदत गुणैर्वृत्तिस्तृतीयाद्भुता ॥१॥ इति श्रीहैमलघुप्रक्रियावृत्तौ हैमप्रकाशाभिधाया(याः) तृतीया वृत्तिः समाप्ता। तत्समाप्तौ संपूर्णा हेमलघुप्रक्रियावृत्तिः ॥ अथास्याः प्रशस्तिः।
नव्ये काव्येतिभव्याः प्रथितपृथुधियः पाणिनीये च हैमे विज्ञाने वास्तुतत्त्वेप्यतिविशदशः कर्कशास्तर्कशास्त्रे । सिद्धांते बुद्धिधन्या गुणिगणकगणाग्रेसरा नाटकज्ञा निष्णाता नीतिशास्त्रे शकुननयविदो वैद्यके हृद्यविद्याः ॥१॥ स्वछं(च्छं)दं छंदसामप्यधिगतरचना यावनीभावनीया प्राप्तालंकारसारा रुचिरनवरसग्रंथवीथीसमर्थाः। षड्भाषापद्यबंधोद्धरमधुरगिरोध्यात्मविद्याधुरीणाः कोकेप्यस्तोकलोकप्रकटितयशसस्ते वयं केन जय्याः ॥२॥ यावद्विद्याभिमानैरिति हृदि बहुधा मत्ततामाश्रयामस्तावदैवादकस्मात्स्मृतिपथमग(म) हेमसूरीश्वराद्याः । गर्वः सर्वोपि खर्वः समजनि युगपत्तत्प्रणीतप्रबंधान्
ध्यायंतोथैर्ग(ग)भीरानथ परिचिनुमस्तत्वसौहित्यलीलां ॥३॥ विभिर्विशेषकं ॥
श्रीहेमचंद्रादिसुरीश्वराणां पुरः स्फुरद्यः कवितामदो यः ।
ताय॑स्य पक्षी समुदीक्ष्य साक्षात् स मक्षिकाणामिव पक्षधर्मः॥४॥ A[Des. Cat Vol. II, Ph. II]