________________
388 Rajasthan Oriental Research Institute, Jodhpar(Bikaner-Oollection)
2599/14285 मध्यसिद्धान्त कौमुदी 'कौमुदी विलास' टीका Opening :
॥श्री परमात्मने नमः ।। प्रणोमिदुर्गा परमात्तिहंत्री सर्गस्थितिप्रच्यवमूलकीम् । अनादिमायां परमां विचित्रां तदंकखेलंतमिभास्यदेवम् ॥१॥ मभूदिद्वजेन्द्रः शिवराजघान्यां गोवद्धनो मौनिकुलाब्धिचन्द्रः । निवारितद्वंततमःप्रचारो नृपादिभिः पूजितपादपद्मः ।।२।। तस्मादिद्वजारो रघुनाथनामा बुधः समाराधितशंभुपाद. । तर्कादिशास्त्रोदधिकर्णधारो बभूवमान्योऽखिलभूपतीनाम् ॥३॥ रघुनाथ तनूजेन जयकृष्णेन धीमता। मध्यसिद्धान्तकौमुद्या विलासोऽयं वितन्यते ॥४॥
सुशब्दवातश्रीकुमुदवनविद्योतनकरी सदा सद्व्युत्पत्ति प्रसरणपरानंदनझरी। कुशब्दध्वांतस्य प्रसभमभिविध्वंसनकरी
कृति यादेषा बुधजनमतः प्रांगणचरी ॥५॥ पाणिनीयव्याकरणागमसिद्धांतरत्नजिज्ञासूनां वालानामुपकृतये परमकारुणिको वरदराजः प्रारिप्सितस्य ग्रन्थस्याविघ्नपरिसमाप्त्यर्थम् अविगीतशिष्टाचारपरंपराप्राप्तं . गुरुनमस्काररूपं मंगलाचरणं शिष्य शिक्षार्थ प्रथे उपनिबघ्नन् विषयप्रयोजनसंबंधाधिकारिणश्चमूचयन् चिकिषितं । प्रतिजानीते ॥
Closing
छिद्रः शसासाहचर्यात्सुवेवामगृह्यते तेनचिनोतेलंङादेशस्यमिपस्तस्थस्यमि पामित्यमि सार्वधातुकेंतिगुणे मचिनोम् इति स्थिते आकारादेशो न अचिनवं गोरितिङ सिङसोश्चेति पूर्वरुपं इत्योदंताः रायो अष्टन प्राविभक्तावित्यनः प्रादिभक्ताविति चानुवर्तते तदाह प्राकारांतादेश इति अर्थ र विभवा अपीत्यमरः इत्येदंता: ग्लोरिति ग्लौमृगांक: कलानिधिरित्यमरः इत्यजंता पुल्लिंगाः॥
श्रति श्रीमुन्मौनिकुलतिलकायमान श्रीगोवर्धनभट्टसूनुरघुनाथागज जयकृष्णकृत मध्यसिद्धांतकौमुदीविलासेऽजंतपुल्लिंगप्रकरण समाप्तिमगाव
Colophon: