________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix)
[ 263
विवलौ निर्बलौ तदा मृगया क्लेशदायिनी उक्ता कथिता पुनः यदि तौ वीर्याढ्यौ बलिष्ठौ तदा मृगया शुभफला ।।२।। अथ भोजनचिन्ता लग्नाधिप इति लग्नस्वामी भोज्यदाता भाजनदाता सुखेशः चतुर्थयानस्वामी भोज्यं भोजन वस्तु ईरित उक्तं मदयः सप्तमस्थानस्वामो बुभुक्षा भोक्तुमिच्छा कर्मपतिर्दशमस्थानस्वामो भोजनकर्ता इति विचिन्तयेत् विचारयेत् ।१। अथान्यदाह लग्नस्तनाथाविति लग्नास्तनाथौ लग्नसप्तमस्वामिनी केन्द्रस्थौ लग्नचतुर्थदशमानि एतदन्यतमस्थानस्थितौ विवलौ निबलौ तदा मृगया क्लेशदायिनी उक्ता कथिता पुनः यदि तौ इति स्पष्टार्थ दुःखितावपि भोजनप्राप्तिसंभवज्ञाने पि अकस्मात्सुभोजनप्राप्तिः ।।२।। अथान्यदाह मन्द इति स्पष्टार्थ ।।३।। अन्यदाह रवे दृष्टमिति स्पष्टार्थ ।।४।। अन्यदाह चन्द्र इति स्पष्टार्थ ।।५।। अथान्यदाह स्निग्धमन्नमिति स्पष्टार्थ ॥६॥ अथान्यदाह सूर्यादिभिरिति स्पष्टार्थः। ॥७।। चरादिगेस्यादिति सुखे चर राशौ सति असकृत् वारंवारस्थितराशि गते सति सकृदेकवारं स्वभावराशिगत सते द्विद्विवारं भोजनं स्यादित्यर्थ अथान्यदाह मूलत्रिकोणग इति यस्मिन् खेटे मूलत्रिकोणस्थलग्नम्थे सति पितृगृहे भोजनं अन्यत्स्पष्टं ।।८।। अथान्यदाह शुभेक्षितयुत इति स्पष्टार्थ ।।६।। अथान्यदाह तिलान्नमिति स्पष्टार्थम् ।।१०।। अथान्यदाह शुक्र इति स्पष्टार्थं ।।११।। अथान्यदाह सूर्यमूलमिति स्पष्टार्थम् ।।१२।। अथ स्वप्नः लग्नांश इति लग्नांशये लग्नस्यांशस्वामिनि अर्के सूर्ये तनुगे लग्नगे सति अथवा अस्मिन्नपि बलार्के लग्नस्थे सति दुःस्वप्नं ईक्षते पश्यति अर्कबिम्बमित्यादि स्पष्टं ।।१३।। स्त्रियमिति स्पष्टार्थम् ।।१४।। सबन्धुसंग इति स्पष्टार्थम् ।।१५।। अथालङ्कारः प्रासोदिति स्पष्ट ।।१६।। तदात्मज इति स्पष्ट ।।१७।। पद्मां वपेति स्पष्टं । १८॥