________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix)
( 245
पतञ्जलिस्तस्य पतञ्जलेरिति मनन क्रियापेक्षया कर्तृ कार्ययोरिति कर्तरि षष्ठी नक्तादाविति निषधस्तु क्तस्य निषेधो नतु तक: अनेन प्रक्रियामात्रं दृष्ट्वायं ग्रन्थो न दूष्यः किन्तु भाष्यपर्यन्तं ज्ञात्वेति सूचित वरणति वेदशब्दमुच्चारयतीति वणो ब्रह्मा वरणशब्दे पचाद्यः तस्येयं वा शक्तिर्वाणीसरस्वती देवतेद्मथ इत्यरणन्नण ईय. यद्वा वाण्यतीति सर्वान् जीवान् शब्दोच्चारणे प्रेरयतीति त्र्यन्तात्पचाद्य नदादेरितीप् प्रादिस्थेति णत्वे कृते प्रणीतानि यः कर्मणि क्तः वाण्या प्रणीतानि वाणीप्रणीतानि अमादाविति तत्पुरुषः सीव्यन्तेन्तर्भाव्यन्ते स्वस्मिन्नास्तानि सूत्राणि क्षिवु. तन्तुसंताने शिवेरुच्चेत्यौणादिकः प्रत्यय. यद्वा सूत्रयन्ति वेष्टयन्ति अल्पाक्षरैर्वहूनानिति सूत्राणि सूत्रवेष्टने चुरादिः पचाद्यः अल्पाक्षरबह्वर्थसूचकानि वाणीप्रणीतानि च तानि सूत्राणि चेति कमधारयस्तेषां सबंधसामान्ये षष्ठी कुर्व इति ।
Closing
- प्रीति रहो करोति अत्र वीप्सायां द्वित्व अनेन द्वित्वे सिलुक् स्यात् कथं भोत भीत इव शात मयूख इति भारवि इव शब्देन सादृश्योक्ततया सादृश्ये द्वित्वा योगात् सत्यं भीतेभ्यो भीत इति व्याख्येयं तेनाति भीत इति फल खिन्न: खिन्नः शिख रेषु पदन्यस्यगतासि यत्र क्षीणः क्षीणः परिलघुपयः श्रोतसां चोपभुज्येति मेघदूते एकर या पि खेदावस्थासु च भेदं प्रकलय्य वोप्सा बोध्या मन्द मन्दं नुदतोत्यत्र मन्दं स्वतो मदं गामिनं मन्दंनुदतीत्यन्वयो बोध्यः क्रियासमभिहारे पौन: पुन्ये भृशार्थे चेयर्थः कर्मव्यतिहार इति क्रिया विनिमय इत्यर्थ दलद्वय इत्यादि दलद्वय प्रावभाव आपा भाव अन्योन्यं परस्पर इत्यत्र दलद्वये व्याप् प्राप्तासनेत्यर्थः प्रन्योन्यमित्यत्र स्तवन्यादेरिति क्त प्राप्त सनेत्यर्थः अन्योन्याश्रय इत्यत्र समासे लुक नेत्यर्थः तद्धितप्रत्ययानामनन्तत्वात् कानुनाभिधातुमशक्यत्वादनुक्तसिद्ध्यर्थमाह शेषा इति ।