________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
519
गोपिकाप्रोञ्छितमुखः कृतताम्बूलचर्वणः । दृष्टादर्शो मण्डितस्रक कारितातिः कृपानिधिः ॥२८॥ इति श्रीनवनीतप्रियनामानि शतोत्तरम् । अष्टौ श्रीवल्लभाधीशकृपया रूपितानीह ॥२९॥ तेन श्रीवल्लभाचार्याः प्रसीदन्तु मयि स्वतः ।
दासानुदासे करुणे स्वकीये निजवंशजे !॥३०॥ COLOPHON: DHONइति श्रीमद वल्लभाचार्यचरणकतानश्रीमधुरानाथात्मज
श्रीद्वारिकेशविरचितं श्रीश्रीनवनीतप्रियनामाऽष्टोत्तरशतं सम्पूर्णम् ।
2629/8861 लाडिलेयविजयाष्टक
OPENING:
॥ ६० ॥ श्रीलाडिलेयो जयति ।। श्रीलीलमाधवमहोदरमेदुरश्री भास्वत्कलावलिललामसकामवामम् । श्यामन्तमुन्मदरसेनयजाशुचेतो, श्रीलाडिलेयविजयं भज भञ्जयाधिम् ॥१॥ श्रीपौरुषोत्तमपुरादवतीर्य वीर्य-, माविः करोति जगदण्डतमोऽपहृत्य लीलाप्रियावलिविलीढितसौष्ठवन्तं, श्रीलाडिलेयविजयं भज भञ्जयाधिम् ॥२॥ सम्वत्सरे मुनिवसुद्वयचन्द्रमब्दे १८८७. वैशाखशुक्लमुकुटोत्सववासरेन्द्रौ। . पट्टाभिषेकमकरोद् विधितोऽस्यवेधा, श्रीलाडि. ॥३॥ गोस्वामि,श्रीहितमहोदयमूर्ततीर्थ- . श्रीमत्प्रियाललितलालकृताभिषेकम् । कालोपुरस्थजनतार्थितदानशील, श्रीलाडि. ॥४॥ श्रीकोशलापरसरत्सरयूतटान्ते, श्रीराघवेन्द्रपितुरप्यथ यज्ञभूमौ । पृथ्वीपतिप्रथितप्रार्थितदत्तराज्यं, श्रीलाडि. ।।५।।