________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
505
लिङ्ग - साधुवेषस्तत्र यदि मध्यमजिनर्यथालब्ध वस्त्ररूपं लिङ्ग साधूनामुपदिष्टम् । तदा किमिति प्रथम चरमजिनाभ्यां सप्रमाण धवलवसनमिति । एतेन चरमजिनशासनसाधूनां सप्रमाणधवलवस्त्रत्वमेव लिङ्गम् । एषां संवेगिना त रञ्जितवस्त्रत्वेन लिङ्गान्तरत्वाज्जिनाज्ञाविराधकत्वं काँक्षामोहनीयकर्मवेदकत्वं दूनिर्वायमेव ।
किञ्च इदंत्वेकम् । द्वितीयं पुनर्मूषावादितया । यथा प्रश्रव्याकरणे मोहनीयस्थानेषु प्राचार्यादीनां खिसनं १०, अबहुश्रु तत्वेप्यात्मनो बहुश्रु तत्वख्यापनं १५, एवमतपस्विनोपि तपस्विता प्रख्यापनं १६, स्वयंकृताऽकृत्यस्यान्यकृतत्वाविर्भावनं १८, विचित्रमायाप्रकारैः परवञ्चनं १९, अशुभपरिणामात्सत्यस्यापि सभायां मृषेति कथनं २०, इत्याद्यनाचरणीयाः कर्मबन्धहेतवो भगवदुक्ता, भवत्स्वेव बहव उपलभ्यन्ते ।
नन्वेवं भवन्तः किं तपागच्छीया? उत तदितरा ? यदि तपागच्छीयास्तहि तद्गच्छीयाचार्योपाध्यायसाधुलिङ्गविरुद्ध लिङ्ग भवताम् । यदि तदितरास्तहि तपागच्छस्य गच्छत्वं, इतरस्य नेत्यादिकथने कः सम्वन्धो भवताम् । एवं च स्वस्थ पूर्वोक्तविशेषणवैशिष्ट्यप्रख्यापनाय एवायं वाचो युक्तित्वप्रदर्शनप्रकारो, न तु कश्चित्तपागच्छेन सह सम्वन्धः । इत्यलमनल्पानल्पकल्पनाभिरिति शम् ।
॥ प्रार्याः ॥
CLOSING :
सम्प्रार्थयेऽहं जिनवरवचनोद्भूतसद्धर्मरीतिः, श्रीवीरादद्यकालावधिविततिगता देशकालानुरूपा । संरक्ष्या सातियत्वादृजुहृदयतया छेदनीया न दोषैरीमिर्षप्रकर्षप्रभवबहुमृषाऽवधनः कदापि ॥१॥
पूर्व तत्वविवेके, कृतेऽपि संवेगिसाधु दुष्तर्कम् । छेत्तं नानकचन्द्रो व्यलिखद् गच्छाश्रितं किञ्चित् ।।२।।
1914/1861 षष्टिशतकप्रकरण-भाषावचनिकासह
OPENING:
अथ उपदेशसिद्धान्त रत्नमाला नाम ग्रन्थ की वचनिका लिखिए है।