SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ 504 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur Collection) बालचापलमेव । मतशब्दस्य तादृश समदायबोधकत्वाभावात । मतं नाम सिद्धान्तेषु वैलक्षण्यबोद्धव्यशैव वैष्णवमित्यादि । न तथाऽत्र जैनशासने खरतर-लक्कादीनां तपागच्छत: सिद्धांतवैलक्षण्यम् । न च सूत्रभेद: । अथ यदि समान एवागमे मतशब्दस्याचार्याभिप्रायमात्रवाचकत्वमादाय तपागच्छतः खरतरलक्कादीनां धर्मविशेषलक्षण्यसम्मतिकारित्वान्मतानीत्युच्यते चेत्तदपि बालिशप्रलपितम् । यतः खरतर-लक्कादीनां सूत्रोक्तधर्मेषु न किमपि वैलक्षण्यं, सम्मतं यथोक्ताचरितत्वात् । प्रत्युत तपागच्छीगरेवानन्तसंसारकारकमुत्सूत्रधर्मवैलक्षण्यसम्मतीकृतम् । तथाहि तरुणस्त्रीकर्तृकमूलनायकप्रतिमापूजा प्रज्ञापनासूत्रे निषिद्धापि तपागच्छीय सम्मतीक्रियते । तथा पर्वतिथिकल्याणमन्तरा पौषधं स्थाप्यते, तदपि सूत्रकृताङ्गसूत्रेषु निषिद्धत्वादुत्सूताम् । एवं बहुविधधर्मवलक्षण्यं तेषा सम्मतमस्ति, विस्तरभयान्नोपदशितम् । यद्वा, तदुक्तमतत्वमप्यस्तु को दोषः? आगमानुपात्याचार्याभिप्रायविशेषस्य प्रामाणिकतयाभ्युपगमात । अतएव असणमित्यादि गाथा । यदपि तद्वाक्यात तपागच्छो न मतमिति प्रतीयते तदपि युक्तम् । भवत्सदृशवाचाटसमुदाये कथमिव मतत्वं गच्छत्वं वा स्यात् । अस्तु वा गच्छत्वं समुदायमानत्वात अवधिगच्छवत् । मतत्वं सुतरां न सम्भवति । तादृग्विशिष्टाचार्याभावप्रयुक्ताभिप्रायत्वात अथवेदृक् प्रलपनं मुक्तमेव पीतवाससां नाम संवेगिनाम् । . मतस्तेहि कदाग्रहग्रहिलमनसो भगवदागमनिर्णीतमपि लिङ्गालिङ्गादिविभाव पृष्टतयावमन्यन्तः साध्वाभासाः वयमेव पञ्चमहाव्रतधराः यथार्थवादिन इत्यादि वितथवचनाडम्वरेणाहनिशं मुग्धजनान् प्रतारयन्तः स्वसमानासहंतामहदाज्ञाविराधकतां च तिरोदधते । न हीरशैः साकं वाक्सम्बन्धमपि कतु साम्प्रतम् । नच नेते यशोविजयपथिनस्तीर्थकराज्ञाविराधकः इति वाच्यम् । पीतवसनत्वेन तस्य स्फुटं प्रतीयमानत्वात् । तथाहि भगवत्यां लिंगंतरेहि'इत्युपक्रम्य 'करवामोहणिज्ज कम्मंवेदंति' इत्युक्तम् । अत्राऽमयदेवसूरयः
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy