________________
852
Rajasthan Oriental Research Institute. Jodhpur. ( Alwar-Collection)
मयाऽऽर्यभटजिष्णुजाः रवचरवेधने [वर्धने] वेधसो, वराहमिहरादयो यदनुसारमात्रं ययुः । द्विधा गणितचातुरी निखिलगोलनैपुण्ययोविमुर्जयतिभास्करो गणकचक्रचूडामणिः ।।३।।
तस्मात् कैश्चित्प्रमेयविमलबहुधियामेव विज्ञानवेद्यवक्ष्ये सिद्धान्तराज नवनवरचनं दोषकुद्दालरुपम् । सम्यग्विज्ञाय विज्ञा गुणमगुणमिह प्रस्फुटं प्रस्तुवन्तु, प्रायो वा दूषयन्तु क्वचिदपि न भयं केवलं मौढयतो भीः ॥७॥
CLOSING:
इत्येतस्यामिंद्रपुर्या वसन्सनित्यानंदो देवदत्तस्य पुत्रः । सारोद्धारे सर्वसिद्धांतराजे, यंत्राध्यायं प्रापयंत्तत्रपूर्तिम् ।।१४८।।
श्रुतिस्मृतिव्याकरणप्रवीणविशिष्टशिष्टाचरणकदक्षः। श्रीमत्कुरुक्षेत्रसमीपसंस्थद्विजोत्तमैरिंद्रपुरी विभाति ।।१।।
तस्यां वसन्गौडकुलप्रसूतो. नुशासनेनापि डुलीनहट्टः । इच्छाभिधो मुद्गलगोत्रजन्मा, बभूव पूर्व स तया मनीषी ॥२॥ तस्यात्मजः श्रौतविधिप्रयुक्तो, वेदांतशास्त्रादिकपारगामी। तपोधनो ज्योतिषशास्त्रदक्षो, विचक्षणो लक्ष्मणसंज्ञकोऽभूत् ॥३॥ तदीयपुत्रस्तपसावरिष्ठः, सदा गरिष्ठो द्विजमण्डलीषु । सदा सदाचारयुतो मनीषी, नारायणो धर्मपरायणोऽभूत् ॥४॥