________________
776
Rajasthan Oriental Research Institute,Jodhpur. (Alwar-Collection) .
युष्मत्पदाम्भोजरजोनुत्तिना, मुकुन्ददासेन मनोवलम्बिका। गोविंदलीलामृतदर्शितक्रमात् पद्यानि संगृह्य मया विनिर्मिता ।।८८॥
COLOPHON :
इति श्रीमनोवलम्बिकायां निशीथविलासो नामोष्टमोविषयः ।
4505/2195 मेघदूत-बालप्रबोधिनीटीका सह
OPENING :
श्रीगुरुचरणकमलेभ्यो नमः । ग्रन्थादौ मङ्गलमारभते:कल्याणपूर्णः करुणाकटाक्षः, काशीपुरे कामपि कल्पवल्लीम् । सीमानमुच्चः सुतवत्सलाना, . समाद्रिये मातरमद्रिकन्याम् ॥१॥
काशीविश्वेशचरणी प्रणम्याभीष्टसिद्धये । क्रियते मेघदूतस्य टीकाबालप्रबोधिनी ॥२॥
CLOSING :
उद्भासिताखिलपदामिह मेघदूतकाव्येप्रबुद्धरसबन्धुरभावभाजि । ' सज्जीभवद् गुणकथां स्थिरदेवनामा- . टीकामिमामकृतकीत्तिमिव प्रसन्नाम् ॥१॥
COLOPHON:
इति सरस्वतीशृङ्गारहारोपाख्याने महाकाव्ये कविराजकालिदासकृतौ स्थिरदेवकृतिरियं टीका सम्पूर्णा । शुभं भवतु ।
मेघदूताय नमः।
Post-Colophonic :
यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्ध वा मम दोषो न दीयताम् ॥१॥