________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix)
773
विशदितशिवपक्षां गीतगोविन्दटीकां रचयति शशिलेखां मैथिलः कृष्णदत्तः । इह न विविधटीकाव्यंजितः कृष्णपक्षो विवृत उभयपक्षकाभिधेयं पदं वा ॥२॥
* दोषान्वितापि कुटिलापि विमार्गगापि,
शुद्धयास्पदंशिवपदं कथमप्यवाता । केषां विशेषविदुषामपि मोदमेषामाधास्यति स्फुटपदा भुवि चन्द्रलेखा ॥३॥
शैवं नाद्रियते सुधीरपि मतं प्रायोधुना वैष्णवः; शैवो नैव च वैष्णवं निजनिजासद्वासनावासितः।। मत्वेत्थं मधुसूदनोपि मुरजित्पक्षे महिम्नः स्तुति, व्याचख्यौ जयदेवसूक्तिमपि तां शैवे नमाम्यध्वनिम् ॥४॥
CLOSING :
जिह्वा व्याली मुखबिलतलादुल्लसन्ती दुरुक्तक्ष्वेडं यस्योद्वमति पिशुनस्यार्थनाभिः किमस्य । जिह्वा यस्य प्रथयति गुणानेव वक्वेन्दुवासात्, पीयूषाा जगति सुजनस्यार्थनाभिः किमस्य ॥१॥
.
COLOPHON:
इति श्रीमथिलकृष्णदत्तविरचितायां श्रीशशिलेखाख्यायां श्रीगीतगोविन्दस्य श्रीशिवपक्षव्याख्यायां द्वादशः सर्गः ॥
Post-Colophonic:
सम्वत् १९०९ फाल्गु० कृ० ति० १२॥ .