________________
732
Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection)
हरिमन्त्रप्रदातारं हरिनाथं गुरु भजे । यन्मंत्रोद्भ तसद्भक्त्या लब्धबोधो हरि गतः ॥४॥
नवं न नयति दासान् भवानीदास ईश्वरः । सावित्र्याहृत्तमोहनन्तम् तं वन्दे वर्णदं गुरुम् ॥५॥
राजा सुचेतरामाख्यं, तातं सन्मार्गदर्शकम् । पुत्रवात्सल्यतो योऽदात्, गुरुलब्ध हरेर्मनुम् ॥६॥
गणेशं च गिरंवन्दे मजं शम्भु शिवां सुरान् । विदोभक्तान् द्विजान् विश्वं हरिरूपं चराचरम् ।।७।।
CLOSING :
सर्ववेदार्थ सन्मय कृष्णचन्द्रमुखप्रभा । जयत्यग्निकणामेयरत्नावलिभ्रमापहा ॥१॥
तत्सखी चन्द्रभागाऽहं सर्ववेदार्थसत्प्रभाम् । नीराजनतयादाय राधाकृष्णपदेप्रये ॥२॥
वैष्णवः सा सदालोक्य बहुमेयभ्रमापहा । सर्ववेदार्थसन्मय कृष्णे चित्तप्रसादिनीम् ॥३॥
राधां हरि तत्सखींश्च प्रणमामि गुरुन् द्विजान् । तत्स्वरूपविदोभक्तान् वैष्णवांनश्च हरिप्रियान् ॥४॥
रामसिंहं गुरु वन्दे हरिनाथं सदासुखम् । भवानीदासकं तातं सुचेतोरामकं नृपम् ॥५॥
भक्तियोगाङ्गयोगाङ्गब्रह्मवर्षे तु कातिके । शुक्लपक्षं बुधाष्टम्यां जाता वेदार्थदीपिका ॥६॥