________________
Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix)
OPENING :
CLOSING :
819/50 प्रयोगरत्नाकर
श्रीगणेशाय नमः ।
यस्यांघ्रिरेखासंस्पृष्टा विधिरेखा दुरक्षरा । शं तनोति ललाटस्था तं गुरुं समुपास्महे ॥१॥
तरुणतरणिकान्तिद्योतित प्राच्यभूभृच्छिखरल सदशोकस्मेरपुष्पोपमानः । श्रभिनवशशिरेखां विभ्रदानन्दहेतु:, करल सदरविन्दः श्रेयसे मे गजास्यः ॥ २॥
कालिन्दी चिकुराली स्वं वाग्देवीत्रिदशधुनी कान्तिः । यदि मयि तनुते करुणां कस्तह्यर्थः प्रयागेण ॥ ३ ॥
श्रीमान्दयाशंकर नामधेयोभिधेयमाधाय सुधेयमार्यैः । शांखायनोक्त हृदि सोमसंस्था प्रयोगरत्नाकरमातनोति ॥४॥
संस्थार्थ पीयूष पिपासया ये धावन्ति तत्तद्ब ुधसद्वचस्सुते । तेषामनायासकलापसंस्था प्रयोगरत्नाकर उद्यतोऽस्ति ||५||
683
इति श्रीमद्व्यावहारिकोपाख्यधरणीधरसूनुना दयाशंकरेण विरचिते श्रीशांखायनसूत्रस्य सोमसंस्थाप्रयोगे प्रयोगरत्नाकराख्ये प्राप्तोर्यामः सम्पूर्णः ॥ श्री ॥
लोके नागरजातिभूषरणवर: काशीविकाशीकृतस्थानोऽयं द्विजराजभासुरवपुः सद्योगधामाश्रितः । यः शुद्ध वृषमाश्रितः श्रुतिनिरुक्तादिक्रमाभ्यासकः, श्रीगङ्गाधरवद्बभूव भुवि यो गङ्गाधराख्यः पुरा ॥ १ ॥