________________
Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix)
675
तस्मादभूदरिविभूतिभूतलक्ष्मीः अक्षीणपुण्यविभवो जसपालदेवः । निर्वैरिणं क्षितितलं प्रविधाय शान्तो रामाश्रयात् परशुराम इवाभिरेमे ॥६॥
नीहारहारहरहासविकासिकाश-नीकासनिर्भरमनोहरकीतिवल्ल्यः ।। दिग्दन्तिवन्तवलनक्रमतो वितानाः, पुष्यन्ति तारकमिषादधुनापि यस्य।।७।।
लक्ष्मीपतिप्रणयकेलिगृहादमुष्माद्, दुग्धाम्बुधेरमृतभानुरिवोदयासीत् । भूभृत्किरीटनिवहेषु पदं दधानः,...कलाभिरमलो मरुराजदेवः ।।८।।
यस्य प्रतापतपने समुदीयमाने, वैरिक्षितीशा कमलावलयोनिमीलाम् (?)। स्वरं प्रयान्त्यपि च बान्धवकरवाली, पद्माश्रयां मुदमुपैति विचित्रमेतत्।।९।।
निर्दूषणा प्रियतमापि गृहादनेन, लक्ष्मीविनोदनवशम्बदमानसेन । निष्कासितास्ति कुरुकं त्विति किं प्रबक्तु कीत्तिः परिभ्रमति दिग्वलयं यदीया।।१०॥
दाननिवृत्तिपदवीं नयतोथिनश्च, प्रत्यर्थिनं च न शिरःप्रणयं दधानः । यः संसदि स्फुरति चाद्भुतमन्त्रशक्तिविस्मापितामरगुरुगुणरत्नभूमिः ॥११॥
यो निश्चिनोति विदुषामपि संशयेषु, धर्म श्रुतिस्मृतिगतानभिधेयभावान् । यश्चातनोति निखिलासु कलास्वभिज्ञो, यज्ञान् (न) यज्ञमहितानहितापकारी ॥१२॥
स यजुर्मञ्जरी रम्यां करोति कृतिनाम्मुदे । नानाविधफलव्यूहप्रसवोल्लासितश्रियम् ॥१३॥