SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Santinātha Jain Bhandāra, Cambay 167 एतस्मिन् गुणरत्नरोहणगिरिर्गांभीर्यपाथोनिधि स्तुंगत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः । सम्यग्ज्ञानविशुद्धसंयमतपःस्वाचारचर्यानिधेः शान्तः श्रीजयसिंहसूरिरभवन्निःसंगचूडामणिः ॥ ३ ॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ॥ ४ ॥ श्रीवीरदेवविबुधैः सन्मंत्राद्यतिशयप्रवरतोयैः । द्रुम इव यः संसिक्तः कस्तद्गुणकीर्तने शक्तः ? ॥ ५ ॥ तथाहि आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं __ यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्रांबुधिनिर्यदुज्ज्वलवचःपीयूषपानोद्यतै___गीर्वाणैरिव दुग्धसिंधुमथने तृप्तिन लेभे जनैः ॥ ६ ॥ कृत्वा येन तपः सुदुष्करतरं विश्व प्रबोध्य प्रभो स्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः। .. शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं यस्याशास्वनिवारितं विचरति श्वेतांशुशुभ्रं यशः ॥ ७ ॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसंपर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥ ८ ॥ विस्फूर्जत्कलिकालदुस्तरतमःसन्तानसुप्तस्थितिः सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरंतनमुनिक्षुण्णः समुद्योतितो मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ।। ९ ॥ तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥ १० ॥ ग्रंथाग्रं ५७००॥छ॥ संवत् १३०१ वर्षे अषाढ शुदि १० शुक्रेऽयेह धवलक्ककनगरनिवासिना प्राग्वाटवंशोद्भवेन व्य० पासदेव सुत गंधिक श्रे० धीणाकेन बृहद्धाता सीद्धाश्रेयोर्थ ससूत्रा मलधारिश्रीहेमचंद्रसूरिविरचिताऽनुयोगद्वारवृत्तिलेखयांचवे ॥ छ । मंगलं महाश्रीः । शुभं भवतु चतुर्विधश्रीश्रमणसंघस्य ॥ छ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy