SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 66 ] Catalogue of Palm-Leaf Mss. in the (2) Anuyogadvārasūtra-Vștti Folios - 56 to 237 Extent -5700 Granthas Language - Sanskrit Size -31.2x2.2 inches: Author - Maladhāri Hemacandrasuri Condition - Good Age of MS. - 1301 V. S. आदिः ॥ नमः वीतरागाय ॥ सम्यक्सुरेन्द्रकृतसंस्तुतिपादपद्ममुद्दामकामकरिराजकठोरसिंहम् । सद्धर्मदेशकवरं वरदं नतोऽस्मि वीरं विशुद्धतरबोधनिधिं सुधीरम् ॥ १ ॥ अनुयोगभृतां पादान् वंदे श्रीगौतमादिसूरीणाम् । निष्कारणबंधूनां विशेषतो धर्मदातृणाम् ॥ २ ॥ यस्याः प्रसादमतुलं संप्राप्य भवंति भव्यजननिवहाः । अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वंदे ॥ ३ ॥ इहातिगंभीरमहानीरधिमध्यनिपतितानर्थ्यरत्नमिवातिदुर्लभं संप्राप्य मानुषं जन्म, ततो लब्ध्वा त्रिभुवनैकहितश्रीमजिनप्रणीतबोधिलाभ, समासाद्य वित्यनुगुणं परिणामम् , प्रतिपद्य चरणधर्मम् , अधीत्य विधिवत् सूत्रम् , समधिगम्य तत्परमार्थम् , विज्ञाय स्वपरसमयरहस्यम् , तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यम् । अंत: तदेवं समर्थित नयद्वारम् । तत्समर्थने च समर्थितानि चत्वार्युपक्रमादीनि द्वाराणि । तत्समर्थने चानुयोगद्वारशास्त्रं समाप्तम् ॥ छ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किंचिदिह वितथम् ॥ १ ॥ सूत्रमतिलंध्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥ २ ॥ छमस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥ ३ ॥ कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥ ४ ॥ श्रीप्रश्नवाहनकुलांबुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चै'छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥ १ ॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामाऽस्ति ।। २ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy