________________
Säntinātha Jain Bhandara, Cambay
[107 आद्या सहवदेविः सहदेविश्चापरा परार्थपरा । धनदेवस्य च समजनि सधर्मिणी धाहिणि/रा ॥ ९॥ थिरदेवीदयितायां थिरचंद्रस्याभवन्नथांगरहाः । ऐरावतदंता इव चत्वारो निर्मलात्मानः ॥ १० ॥ आद्यस्तेषु समस्तशस्तगुणवर्गः पासणागः सुधी
धर्मोद्धारकृदामणाग इति विख्यातो द्वितीयस्तथा । शांतः शांतिकुमार इत्यधिगतो बुद्ध्या तृतीयः पुन
स्तुर्यः संयमधुर्यधीर्महणसिंहः सिंहशूरोऽस्यहो ! ॥११॥ राजीमतीति तेषां भगिनी भग्नातिमात्रमोहबला । यन्मानसे मरालीलीलायितमातनोति कृपा ॥ १२॥ पाहिणिः पासणागस्य गेहिनी गुणमंदिरम् । आमश्रीरामणागस्य दाराश्वाचारपारगाः ॥ १३॥ शांता शांतिकुमारस्य पाल्हुकेति सधर्मिणी । कलाकलापसंपन्ना मूर्तिश्चांद्रमसी यथा ॥ १४॥ सुतवती दुहिताद्वयमादिमा, सलखणस्य च सहवगेहिनी । अभिधया प्रथमाऽजनि छाहिणिः, शमपरा त्वपरा ननु रूपिणिः ॥ १५॥ द्वितीया प्रेयसी तस्य सहदेविरजीजनत् । वोढारं ललितादेव्याः पासवीरं तनूद्भवम् ॥ १६ ॥ धनदेवस्य च दयिता धाहिणिनाम्नी सुतत्रयमसूत । धर्मार्थकामनाम्नः पुरुषार्थास्त्रीन् क्रिया यद्वत् ॥१७॥ नेमाकः प्रथमस्तेषु प्रथमो धर्मकर्मणि । द्वितीयोऽप्यद्वितीयोऽस्ति क्षमी लक्ष्मीधराभिधः ॥ १८ ॥ तार्तीयीकः सुकृतद्रुमालवालः पुनः सहजपालः । एषां धर्मकरसा स्वसाऽथ माल्हेऽभिधानाऽस्ति ॥ १९ ॥ नागमतेति कलत्रं नेमाकस्यास्ति निर्मलचरित्रम् ।। लक्ष्मीधरस्य दयिता लक्ष्मश्रीः सकलजंतुहिता ॥२०॥ सीतेव विमलशीला सीतादेवीति सहजपालस्य । विनयालंकृतहृदया दयाविलासान्विता दयिता ॥ २१॥ अंगजाः पासणागस्य परोपकरणोल्वणाः। संभवो धनसिंहश्वासपालश्चेति सन्त्यमी ॥ २२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org