SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 106] यावद् विजयते तीर्थं श्रीमद्वीरजिनेशितुः । तावदेष मरालीव खेलतात् कृतिमानसे ॥ १२ ॥ छ ॥ ७००० ग्रंथाग्रं सप्त सहस्राणि सकलमपि संपूर्णानि ॥ Catalogue of Palm-Leaf Mss. in the शुभमस्तु सर्वजगतः परहितनिरता भवंतु भूतगणाः । दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥ अग्ने रक्षेज्जले रक्षेद् रक्षेत् शिथिलबंधनम् । कष्टेन लिख्यते शास्त्रं पुत्रवत् प्रतिपालयेत् ॥ २ ॥ श्रीप्रज्ञातिलकसूरीणां दशवैकालिकपुस्तकमिदं । पं. माणिक्यतिलकेन शोधितं । मंगलं महाश्रीः ॥ Jain Educationa International सुखमनुपमं स श्रीने मिस्तनोति तनूमतां दिशि दिशि गता यस्य स्फाराः शरीरमरीचयः । भुवनमहिते राजीमत्या विवाहमहोत्सवे मदनजयिनः संराजंते शरा इव तेजिताः ॥ १ ॥ अतुच्छगांभीर्यनिवासभूमिर्नदीनभावप्रथितः पृथिव्याम् । केशवंशोऽस्ति पयोधिकल्पचित्रं तु जागर्त्ति जिनो यदन्तः ॥ २ ॥ तस्मिन्नादिमपुरुषावुभावभूतां नितांतकांतगुणौ । प्रथम दानामा वरणिगनामा द्वितीयश्च ॥ ३ ॥ तत्राभूद् भूतहिता वाल्देविर्वरणिगस्य सद्गृहिणी । आनखशिखाग्रमग्र्यैः परिपूर्णा विमलगुणनिवहैः ॥ ४ ॥ तस्यामभूद् वरणिगस्य सुतः सुतीर्थवित्तव्ययार्जितयशाः किल देवचंद्रः । एकं बभूव खलु देवसिरिः कलत्रं, तस्य प्रशस्यमपरं ननु देमतेति ॥ ५ ॥ देवचंद्रस्य देवश्रीकुक्षिजस्तनुजोऽजनि । थिरचंद्रः कलासांद्रः सुता नायकनामिका ॥ ६ ॥ तस्यैव देमतकलत्रसमुद्भवोऽभूत्, प्रज्ञाचणः सलखणः प्रथमस्तनूजः । आचारचारुरपरो धनदेवनामा, गांभीर्यधैर्यशममुख्यगुणावुभौ च ॥ ७ ॥ थिरदेविरभूद् भार्या थिरचंद्रस्थातिविश्रुतौदार्या । असपत्नगुणं पत्नीयुगलं जज्ञे सलखणस्य ॥ ८ ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.018054
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1961
Total Pages206
LanguageEnglish
ClassificationCatalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy