________________
[
33
Catalogue of Sanskrit & Prakrit Manuscripts
APPENDIX 2 (Coples of Inscriptions) दिक्चक्रा क्रमयोग्यमार्गणगणाधाराननेकान् गुणा
नच्छिन्नाननिशं दधद्विधुकलासंस्पर्द्धमानधु तीन् । सुनुच्छिन्नधनुर्गुणं विजयिनोऽप्याजो विजित्योजितं,
जातोऽस्मादभिमन्युरन्यनृपतीनामन्यमानस्तृणम् ॥१०॥ यस्यात्यद्भुतवाहवाहनमहाशस्त्रप्रयोगादिषु,
प्रावीण्यं प्रविकत्यितं पृथुमति श्रोभोजपृथ्वीभुजा। छत्रालोकनमात्रजातभयतो दृप्तारिभङ्गप्रद
स्यास्य स्याद् गुणवर्णने त्रिभुवने को लब्धवर्गः प्रभुः ॥११॥ तुरगखरखुरानोत्खातधात्रीसमुत्थं,
स्थगयदहिमरश्मेर्मण्डलं यत्प्रयाणे। प्रचुरतररजोऽन्याशेषतेजस्वितेजो
हतिमविरत ...स वाशंसती वा निवारम् ।।१२।। शरदमृतमयूखखदंशप्रकाश
प्रसरदमितकीर्तिव्याप्तदिक्चक्रवालः । अनि विजयपालः श्रीमतोऽस्मान् महोश:,
शमितशकलधात्रीमंडलक्लेशलेशः ।।१३।। भयं यच्छत्रणां त्रिदशतरणीवीक्षितरणे,
___क्रमेणाशेषाणां व्यतरदसदप्यात्मनि सदा। सतोप्यंशन्नादादवनिवलयस्याधिकमतो.
बुधानामाश्चर्य व्यतनुत नरेन्द्रो हृदि च यः ॥१४॥ तस्माद्विक्रमकारिविक्रमभरप्रारंभनिर्मेदित
प्रोत्तुङ्गाखिलवैरिवारणघटोद्यन्मांसकुंभस्थलः । श्रीमान् विक्रमसिंहभूपतिरभूदन्वर्थनामा समं
__सर्वाशाप्रसरद्विभासुरयशःस्फारस्फुरत्केसरः ॥१५॥ बालस्यापि विलोक्य यस्य परिधाकारं भुजं दक्षिणं,
क्षीणाशेषपराश्रयस्थितिधिया वीरश्रिया संश्रितम् । सर्वांगेष्ववगृहनाग्रहमहंकारादहपूर्विका,
राज्यश्रीरकृताधिकस्य विमुखी सर्वान्यवर्गतः ।।१६।। अत्यंतोदृप्तविद्वितिमिरभरविदिच्छादिता नीतितारा,
चक्रे विष्वकप्रकाशं सकलजगदमंदावकाशं दधाने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org