SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्री शखेश्वरपार्श्वनाथाय नमः । पंचासरमण्डन-श्री महावीरस्वामिने नमः । अनन्तलब्धिनिधान-श्री गौतमस्वामिने नमः । पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपाद-सद्गुरुदेव-मुनिराजश्री भुवनविजयजीपादपद्येभ्यो नमः । सम्पादकीया द्वि-त्राः शब्दाः अनन्तोपकारिणः परमकृपालोः परमात्मनः तथा परमोपकारिणां पितृचरणानां सद्गुरूणां च मुनिराजश्री भुवनविजयजीमहाराजानां कृपया सम्पादितां भागचतुष्टयात्मिकाम् अणहिलपाटक(पाटण)नगरस्थप्राचीनजैनग्रन्थभाण्डागारान्तर्गतानां हस्तलिखितग्रन्थानां सूचिं श्रुतज्ञानरसिकानां सज्जनानां करकमलेषूपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । आदित एव जैनसंस्कृतेः परमधामभूते पाटणनगरे परःसहस्रा विद्वजनचमत्कारकारिणो हस्तलिखिता ग्रन्था आसन्। तेषां बहवः सङ्ग्रहाः पृथक् पृथक् स्थानेषु बभूवुः । कालक्रमेण अनेके ग्रन्था जीर्णशीर्णतामपि याताः। तथापि बहवो ग्रन्था अद्यत्वेऽपि तत्र सन्ति । तेषां सम्यग्व्यवस्थापनार्थ बद्धकक्षैः स्व. आगमप्रभाकरैः पुण्यनामधेयैः मुनिराज श्री पुण्यविजयजीमहाराजैः तेषां प्रगुरु-गुरुवरैः प्रवर्तक मुनिराजश्रीकान्तिविजयजीमहाराज-चतुरविजयजीमहाराजैश्च पाटणश्री जैनसङ्के प्रेरणां विधाय श्रीपञ्चासरापार्श्वनाथजैनमन्दिरसमीपे पाटणश्री जैनसङ्घसत्कं नूतनं श्री हेमचन्द्राचार्यजैनज्ञानमन्दिर निर्माप्य द्वि-त्रान् प्राचीनग्रन्थसङ्ग्रहान् विमुच्य सर्वेऽपि पाटणनगरे विद्यमाना हस्तलिखितग्रन्थसङ्ग्रहास्तत्र आनायिताः । 'ग्रन्थाङ्कः, ग्रन्थनाम, पत्रसङ्ख्या, भाषा, कर्ता, श्लोकसङ्ख्या, रचनासंवत्, लेखनसंवत्, स्थितिः (जीर्णादिका), दैायामौ,' इत्यादिवर्णनात्मिका सर्वेषामपि पाटणनगरस्थप्राचीनहस्तलिखितग्रन्थानां सूचिरपि पाटणनगरे चिरं स्थित्वा अनेकैः सहकार्यकरैः सह महता महता महता परिश्रमेण तैरेव व्यधायि। तेषु च श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे स्थितानां कागळपत्रोपरि लिखितानां Paper Mss. १९७०६ ग्रन्थाङ्कानां सूचिमध्यात् १४७८९ ग्रन्थानां सूचिरूपः 'पाटण-श्री हेमचन्द्राचार्य जैन ज्ञानमन्दिरस्थित जैन ज्ञानभंडारोनुं सूचिपत्र' इति नाम्ना प्रथमो भागः विंशतिप्रायवर्षेभ्यः प्राक् श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरेण मुद्रयित्वा प्रकाशितः । किन्तु ततः परं किमपि न प्रकाशितम् । अतः श्री 'लक्ष्मणभाई हीरालाल भोजक' महोदयानामभ्यर्थनया अवशिष्टानामपि ग्रन्थाङ्कानाम्, अपरेषामपि भाभापाडामध्ये स्थितानां कागळपत्रोपरि लिखितानां Paper Mss. ३२०६ ग्रन्थानाम् तथा विभिन्नग्रन्थभाण्डागारस्थितानां तालपत्रोपरि लिखितानामपि Palm-leaf Mss. परःशतानां ग्रन्थानां विस्तरेण सूचेः प्रकाशनमतीव उपयोगि मत्वा तत्सम्पादनमस्माभिः प्रारब्धम्। अत्रैवंविधमायोजनम्- Volume 1 मध्ये प्रथमे द्वितीये च भागे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे स्थितानां २००३५ ग्रन्थाङ्कानां सूचिः वर्तते । Volume II मध्ये तृतीये भागे सर्वेषाप्यमीषां ग्रन्थानामकारादिक्रमेण सूचिर्वर्तते । Volume III मध्ये चतुर्थे भागे भाभापाडास्थितानां कागळपत्रोपरि लिखितानां ३२०६ ग्रन्थानाम् खेतरवसीपाडास्थितानां तालपत्रोपरि लिखितानां ग्रन्थानाम्, सम्प्रति श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमानानां संघवीपाडाग्रन्थभाण्डागारसत्कानां बहूनां तालपत्रोपरिलिखितानां ग्रन्थानां तथा अन्येषामपि सङ्घभण्डार' आदिसत्कानां तालपत्रोपरि लिखितानां ग्रन्थानां विस्तरेण सूचिः अकारादिक्रमात्मिकाभिः पृथक् पृथक् सूचिभिः सह वर्तते । अकारादिक्रमात्मिकाः सर्वाः सूचयः कोम्प्युटर (Computer) द्वाराऽस्माभिः कारिताः । महता महता परिश्रमेण अस्य भागचतुष्टयस्य सङ्कलनं चतुःकृत्वः पञ्चकृत्वो वा प्रारम्भिकमुद्रितपत्र(प्रफ) निरीक्षणं च विहितमस्त्यस्माभिः । तथापि याः काश्चन क्षतयोऽवशिष्टा अत्र ताः क्षन्तव्याः सुधीमिः । महापरिश्रमसाध्येऽस्मिन् कार्ये मदन्तेवासिना मुनिधर्मचन्द्रविजयेन, तच्छिष्येण च मुनिपुण्डरीकरलविजयेन विविधरीत्या साहायकं विहितम्। मदीयमातुः साध्वीजीश्री मनोहरश्रियः शिष्यायाः साध्वीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रियापि महत् साहायकमनुष्ठितमत्र कार्ये। एते सर्वेऽपि भूयो भूयो धन्यवादमर्हन्ति । __ महता महता महता परिश्रमेण इमां सूचिं निर्माप्य स्व. आगमप्रभाकरैः पूज्यपाद मुनिराजश्री पुण्यविजयजीमहाभागैरनया श्रुतज्ञानाराधनया सर्वस्यापि जैनसङ्घस्योपरि विदुषां चोपरि महानुपकारो विहित इतीमं तत्परिश्रमफलरूपं भागद्वयात्मकं ग्रन्थं तेषामेव करकमले समर्पयामि। विक्रम सं. २०४८ ज्ञानपञ्चमी, पंचासर -पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकार(जिल्ला - महेसाणा) PIN ३८२७५० पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यरत्नपूज्यपाद सद्गुरुदेव मुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः १. क्वचित् क्वचिदेकस्मिन् ग्रन्थाङ्के लघुतराः प्रभूताः अतिप्रभूता वा ग्रन्था अपि सन्तीत्यपि ध्येयम्। Jain Education Intemational ational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.018046
Book TitleCatalogue of Manuscripts of Patana Jain Bhandara 01 02
Original Sutra AuthorN/A
AuthorPunyavijay, Jambuvijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1991
Total Pages650
LanguageHindi
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy