________________
to
482.1 The Svetāmbara Narratives
218 Ends- fol. 270
तत्तदनुग्रहहेतोर्यतिधर्म दशविधं जगौ भगवान् । द्वादशधा गृहिधर्म दर्शनमूलं च सुव्यक्तं ॥१॥ ऊचुर्नृपादयो यथा यतिधर्मे न प्रभो ! वयं शक्ताः । तदनुग्रहं विधाय श्राद्धानां देहि धर्म नः ॥ २ भगवानथ गृहिधर्मं विधिना दत्ते स्म ते(s)पि तं निधिवत् । प्राप्य वधुः प्रमदभरं व्यजिज्ञपद् गुरुमथो नृपतिः ॥ ३ भगवन् ! को(s)हं भविता भवादतो भावि मे शिवं नो वा? गुरुराख्यत् स्वलॊके भावी देवः सभार्यस्त्वं ॥ ४ घ्युत्वा ततो नृजन्मनि धमैः किर्मीरितं सुखं भुक्त्वा गंता(s)सि स्वः पुनरप्येवभितः सप्तमे नृभवे ॥ ५ मुक्त्वा राज्यं प्राप्य व्रतं कृताऽशेषकर्ममलघातः । प्राप्स्यसि शिवशर्म त्वं सह पत्नीभिः सहानंदः ॥ ६
युग्मं ॥ सुहृदोऽप्यार्हताद् धर्मात् क्रमात् सम्यगुपासितात् । भवैः कतिपयै राजन् ! प्राप्स्यति शिवसंपदं ॥ ७ श्रुत्वेति भूपः समुहत्सभार्यः
पौराश्च धर्मान् विविधान् प्रपद्य । गुरुं प्रणम्य प्रकृतार्थभावा
यथागतं स्वं स्वमगुर्निवासं ॥८ सुश्राद्धधर्भ सुचिरं प्रपाल्य
प्रभाव्य तीर्थ बहुघा सभार्यः । काले दिवं प्राप्य नृपो गुरु(रू)क्त
क्रमेण नैःश्रेयसमाप शर्म ॥ ९ एवं नमन् जिनमुनीन् परमेष्ठिमंत्रं
ध्यायन् सृजंश्च सततं निजदारतोष । राज्यादिसंपदमवाप्य पराक्रमेण
प्राप्नोति मुक्तिमपि कर्मजयश्रियांगी ॥ ५१० ॥ (वेदाष्टमनुमिते १४८४ऽब्दे मुनिसुंदरसूरिमिः समुखे वृत्तं । भव्यानुग्रहहेतोः श्रेयःप्राप्त्यै व्यधायीदं ॥ ११ शब्दानुशासने दक्षो लक्ष्मीभद्रमुनिर्मुदा।। कथा एता चतस्रोऽपि गुरुभक्तेरशोधयत् ॥ १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org