________________
110
Jaina Literature and Philosophy
[1338.
स्वालयदेवगृहे शंभवाधिपस्थापनामहे सम्यक् । प्रत्येकं श्राद्धानां प्रददे यो राजती मुद्राम् ॥१०॥ मिष्टान्नभोजनेन रंकान् सेतोष्य वर्षनिष्टास । अष्टाहिकास घुसृणैः वर्णाद्यैः पूजयांचवे ॥११॥ सार्धसहस्रचतुष्टयप्रमिताः प्रतिमाश्च सप्तचैत्येषु । द्रव्यस्तवाधिकारी भावस्तवसंगतः सततम् ॥ १२॥ नगरजनराजमान्यो 'विधि'पक्षाराधको विधिज्ञश्च । दुः(५)कालकण्ठहस्तो मृदुवचनो गर्वमदरहितः ॥ १३ ॥ श्रीथाहरूसनामा अंगजहरिराजमेघराजाभ्याम् । युक्तः कोडिमदेवर आढ्यो न्यायार्जितैव्यैः ॥ १४ ॥ ज्ञातप्राप्तिनिमित्तं भवे भवे बोधिबीजशुद्ध्यर्थम् । सद्ज्ञानकोस(श )मेतं सम्यक् संलेखयांचक्रे ॥ १५॥ चित्कोस(श)लेखनेन श्रेयो यदवापि थाहरूकेन(ण)। हर्षात् तेन प्राज्ञाः जिनागमं वाचयंतु सदा॥१६॥
इति पुस्तकप्रशस्तिः कृता वा हर्षनंद(न)गाणिना ॥ लेषकमेघराज लिपी तिण उपरा उतारी छै ॥ श्रीः ॥ शुभं भवतु ।। श्रीरस्तु ।। संवत् १८३६ वर्षे शाके १७०१ प्रवर्त्तमाने आश्विनवदि कृष्णपक्षे द्वितीयातिथौ सोमबासरे भीमज्जेसलमेरु'महादुर्गे रावलश्रीमूलराजजीविज्ये(जयि)राज्ये लिपी छताम पं० प्र जैतसीगणिना स्ववाचनहेतवे ।।
यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयताम् ॥ १॥ अक्षरमावपदस्वरहीनं व्यअनसंधिविवर्जितरेफम् । साधुभिस्र(स्तु) मम क्षतव्यं को न विमुह्यति शास्त्रसमुळे ॥२॥ अज्ञानाञ्च मतिभ्रंशाद् यत् कूटं लिखितं मया । तत् क्षन्तव्यं बुधैरेव ज्ञानरलार्णवैः परैः॥३॥ तेलाद् रक्षेजलाद रक्षेत् रक्षेत शिथिलबंधनाद । मूर्ष(ख)हस्ते न दातव्यमेवं वदति पुस्तकम् ॥ ४ ॥ भग्नदृष्टिकटीग्रीवा तिर्यग्दृष्टिरधोमुखम् । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org