________________
1338.
Jain Education International
(a) Miscellanea
जयति प्रथमो नृपतिः प्रथमाचार प्रबोधको जगताम् । प्रथमो (S) प्रथममुनिः प्रथमो देवाधिदेवानाम् ॥ १ ॥
जयत्यनंतविज्ञानज्ञानयुक्तिप्रकाशकः । भगवान् श्रीमहावीरस्तर्थिकुञ्चरमः परम् ॥ २ ॥ भूयाद् विविधसिद्धीनामास्पदं गणनायकः । श्रिये तत्त्वविदां श्रीमानिंद्रभूतिर्दयानिधिः ॥ ३ ॥ आष्टान्मुनिद्राणां संहतिर्यस्य संततिः । श्रीवर्द्धमानांतेवासी सुधर्मा ( ( ) भूद् गणेश्वरः ॥ ४ ॥ गणाः संख्यातिगास्तस्माद् बभ्रुवुः साधुशालिनः । तेभ्यः कुलानि शाखाश्र्व प्रसश्रुः ( स्रुः ) प्रौढचेष्टिते ॥ ५ ॥ तत्राभूत् 'कौटिक 'गणः श्रीमद्वज्रमुनीश्वरात् ।
'बाजी' शाखाकुलं 'चंद्र' तत्रापि परिपप्रथे ॥ ६५ पूर्व श्रीहरिभद्राख्यः मूद्रो भद्रदर्शनः तत्र वित्रस्तवादीमः पंचवक्त्रो व्यराजत ॥ ७ ॥ श्रीयाकिनीवदनसंभवचाक्यलेशं
सम्यग् विधाय हृदये विलसहयेन
येनावनं गतसाधुजनस्य चक्रे
चित्रं तदत्र मुनयो विसृशंति चित्ते ॥ ८ ॥ देवचंद्रस्ततः सूरिश्र्चंद्रतां प्रत्यपद्यत मोहांधकार संसारतापपीडितचेतसाम् || ९ || श्री नेमिचंद्रसूरीणां भूषयामास तत्पदम् तत उ(द) द्योतनः पट्टो ( द ) द्योतं तस्य विनिर्ममे १० ततः श्रीवर्द्धमानाख्यः सूरिदुर्वादिनां मदम वर्द्धयत् व (द्व) र्द्धयामास ( स ) मस्तं जिनशासनम् ॥ ११ ॥ श्रीमज्जिनेश्वरः सूरिजिनेश्वरमतं ततः शरद्रा (दा) काशशिस्पृष्टसमुद्रसदृशं व्यधात् ॥ १२ ॥ नवांगवृत्तित् तत्पट्टेऽभयदेवप्रभुर्गुरोः
तस्य 'स्तंभनका 'धीशमा (शी) व समं गुणैः ॥ १३ ॥ श्राद्धप्रबोधप्रवणास्तत्पदे जिनवल्लभः । सुलभतां भेजे त्रिदशानां नृणामपि ॥ १४ ॥ ततः श्री रुद्रपल्लीय गच्छसंज्ञालसयशाः । नृपशेषरतां भेजे सूद्रो जिनशेषरः ॥ १५ ॥
For Private & Personal Use Only
167
www.jainelibrary.org