________________
130
Jaina Literature and Philosophy
[$20.
कल्पः आचारः कथ्यते । तथाहि श्री आदिनाथ - श्री महावीरसाधूनां वस्त्रं मानप्रमाणसहितं जीर्णप्रायं धवले च कल्पते । अजितादि २२ तीर्थंकरसाधूनां तु पंचवर्ण २ etc.
(com.) fol. sb तथा इदं कल्पसूत्रं अनंतार्थविषयं यतः सर्व्वनदीनां वालुकाकणाः सर्व्वसमुद्राणां च ये पानीयबिंदवस्तेभ्यो ( s) पि एकसूत्रस्थार्थी ( s)नंतगुणस्ततो मया मंदमतिना कथं व्याख्यातुं शक्यते तथापि यत्किमपि अर्थलवलेशं कथयन्नस्मि तन्मम माहात्म्यं नास्ति किंतु गुरोरेव । तत्र दृष्टांतो यथा विकलीकरोति तराणं । तन्मारुत[[ ] स्फूज्जितं ।
कचुंबति यद्भुजंगवदनं । तज्जृंभितं मंत्रिणः ।
चैत्रे जति कोकिलः कलरवं यत्सा रसालदुम
स्फूर्त्तिर्जल्पति मादृशः किमपि यन्माहात्म्यमेतद्गुरोः ॥ १ रेणु(:) सूर्यमंडलं स्पृशति तद्वायोमा (म)हात्म्यं न रेणोः १ (1) दर्दुरः सर्पमुख चुंबति तद्गारुडिमंत्र माहात्म्यं न दर्दुरस्य २ (1) चैत्रमासे कोकिला मधुरं कूजति तन्माहात्म्यं आम्रमंजर्या न तु कोकिलाया ( : ) ॥
अथ मंगलार्थे पंचपरमेष्टिनमस्कारो भण्यते ॥
नमो अरिहंताणं | व्याख्यालेशों यथा । नमोऽर्हद्भ्यः चतुःषष्टींद्रकृतां पूजामई ( है ) तीति अर्हतस्तेभ्यो मम नमस्कारोऽस्तु १
नमो सिद्धाणं अष्ट कर्माणि क्षपयित्वा सिद्धिं प्राप्तास्तेभ्यो मम नमस्कारो (S) स्तु २
नमो आयरियाणं आचारेषु पंचसु ज्ञानदर्शनचारित्रत पोवीर्य ५रूपेषु साधवस्ते आचार्यास्तेभ्यो मम नमस्कारो (S) स्तु ३
नमो उवज्झायाणं द्वादशांगानि सूत्रतो ये पाठयंति ते उपाध्यायास्तेभ्यो मम नमस्कारो (S) स्तु ४
नमो लोए सव्वसाहूणं ज्ञानदर्शनचारित्रैः कृत्वा मोक्षमार्ग ये साधयंति ते साधवः सर्व्वशब्देन ये जिनस्थविरकल्पिकादयः सार्द्ध तृतीयद्वीपवर्त्तिनस्तेभ्यो सभ्योऽपि मम नमस्कारो (S) स्तु ५
अथ नमस्कारस्य फलमाह
एसो पंचनमुक्कारो एषः परमेष्ठिनमस्कारः सव्वपावप्पणासणी सर्व्वपापप्रणास (श) नः मंगलाणं च सव्वेसिं सर्वेषां मंगलानां पढमं हवइ मंगलं प्रथमं भवति मंगलं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org