________________
। २०
[अप्रसिद्ध विशेषावश्यकवृत्तिः । हरिभद्रसूरिः ? क्र. ३०८ द्वितीयखण्डरूपेयं प्रसिद्धा मलधारिहेमचन्द्रसूरिकृताऽथवा हरिभद्रसूरिविरचिताऽऽवश्यकवृत्तिः सम्भाव्यते; यतो हरिभद्रसूरिविहिता विशेषावश्यकवृत्तिर्न श्रूयते ।
आवश्यकचूर्णिः क्र. २८८ [P. P. ३।१८३ ] चूर्णिकारो जिनदासमहत्तर इति प्रघोषः ।
आवश्यकबृहद्वृत्तिः (वृत्तिः) । मलयगिरिः क्र. १५९,३२०,३४२. ७३(२),८६(२),९१ क्रमाङ्केषु कर्तुर्नाम न दृश्यते । सुप्रसिद्धस्यास्स जैनागमवृत्तिकारस्य सत्ता कुमारपालनृपसत्तायामित्येतस्कृतस्य मलयगिरिशब्दानुशासनस्यान्तर्वर्तिनाऽरुणत् कुमारपालोऽरातीन् इति दृश्यार्थत्याद्यन्तोदाहरणेन, कुमारपालप्रबन्धादौ हेमचन्द्राचार्येण सममस्य विहारादिवर्णितत्वेन चावसीयते । विदुषश्चास्य कृतिसंहतिरत्र ग्रन्थकृन्नामसूच्यां (पृ. ९०) सूचिता, ओघनियुक्तिवृत्ति-कर्मप्रकृतिवृत्ति-धर्मसङ्ग्रहणिवृत्ति-धर्मसारटीका-भगवतीद्वितीयशतकवृत्ति-विशेषावश्यकवृत्ति-पडशोतिवृत्ति-सप्ततिकावृत्याचाऽपराऽपि वर्तते । [वृ. सं. १२९६ ] आवश्यकलघुवृत्तिः । तिलकाचार्यः क्र. ७६,३२१
[P. P. १।६,४।७४, A. १०।१६ ] वृत्तिकारोऽयं श्रीपदविशिष्टश्चन्द्रगच्छीयचन्द्रप्रभसूरिसन्तानीयशिवप्रभसूरेः शिष्यः, अस्यां वृत्तौ सहायकस्य पद्मप्रभसूरि-यशस्तिलकादेश्च गुरुः । अनेन सूरिणा सं. १२६१ वर्षे प्रत्येकबुद्धचरितम् , सं. १२७४ वर्षे जीतकल्पवृत्तिः, सं. १२७७ वर्षे सम्यक्स्वप्रकरणवृत्तिः, सं. १३०४(?) वर्षे दशवैकालिकटीका सामाचारी-श्रावकप्रायश्चित्तसामाचारी-पौषधिकप्रायश्चित्तसामाचारी-चैत्यवन्दना-वन्दनक-प्रत्याख्यानलघुवृत्ति-श्रावकप्रतिक्रमणसूत्रवृत्ति-साधुप्रतिक्रमणसूत्रवृत्ति-पाक्षिकसूत्र-पाक्षिकक्षामणकावचूर्यादयश्च ग्रन्या जग्रन्थिरे ।
व्या. सं. ११२२ आवश्यकव्याख्या (प्रतिक्रमणसूत्रैपदविवृतिः) । नमिसाधुः
___क्र. २१७,१६२(१) हरिभद्रसूरिरचितावश्यकटीकांशरूपेयम् । विवृतिकारोऽयं थारापद्रपुरीयगच्छीयशालि. (शालिभद्र)सूरेः शिष्यः, येन विदुषा सं. ११२५ वर्षे रुद्रटालङ्कारटिप्पनमकारि । यतिप्रतिक्रमणवृत्तिः
क्र. १६६(२) १ 'आ० वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्वर्षिविहिता'-सिद्धान्तागमस्तवावचूरिः
'आवश्यकचूर्णिः १३६००,१८४७४ ।'-वृ० २ 'आवश्यकवृत्तिर्मलयगिरीया १८०००।-बृ० ३ "शतद्वादशकेऽब्दानां गते विक्रमभूभुजः ।
संवत्सरे षण्णवतौ वृत्तिरेषा विनिर्ममे ॥ -आ० प्रशस्तिः P. P. ४।७५ 'आ० लघुवृत्तिः श्रीतिलकीया १२९६ वर्षे कृता १२३२५ ।'-६० ४ 'साधुप्रतिक्रमणादिषड्विधावश्यकसूत्रवृत्तिः नमिसाधुना सं. ११२३(२) वर्षे कृता
१५५०।-वृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org