SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अप्रसिद्धग्रन्थग्रन्थकृत्परिचयः। जैनसिद्धान्तग्रन्थाः। अङ्गम् । उपासकदशाचूर्णिः ( ? कथाः ) क्रमाङ्कः १० (३) यद्यपि ची. दलालेनात्र 'सप्तमागचूर्णिः' इत्युल्लेखं दृष्ट्वैतदेव नाम सूचितम्, एवं ही. सूचिपत्रेऽपि, किन्तु न चैवम् । 'जस्त.' इत्यादिना दर्शितायाः प्रारम्भगाथाया अनन्तरगाथायामानन्दादीनां दशानामुपासकानां संक्षिप्तकथा अभिधेयत्वेनाभिहिताः । तत्प्रान्ते च कर्ता स्वस्य जिनपतिसूरिशिष्यत्वं, पूर्णभद्रगणिरिति नाम, सं० १२७५ वर्षे चासां सप्तमाङ्गानुसारेण रचनेत्यादि सर्व स्पष्टं निवेदितं दृश्यते H. आदर्शपुस्तके । तत्र कथाप्रारम्भात् प्राक् कथासङ्ग्राहिकाः षोडश गाथाः सन्ति । सप्तदशगाथाया आरभ्य सप्तविंशत्यधिकशत. गाथापर्यन्तं प्रथमकथा । तदनन्तरं च क्रमेण १३,११,५,६,२३,८८,५७,५,५ गाथापरिमिता नव कथा वर्तन्ते । कथासमाप्तौ पुस्तिकालेखयितुर्भुवनपालस्य दशसु काव्येषु प्रशस्तिस्तदनन्तरं चोपासकदशाङ्गस्य विषमपदपञ्जिकारूपा संक्षिप्ताऽवचूरिवर्तते सैवात्र सप्तमानचूर्णित्वेन केनाप्युपलक्षिता। १ "आणंदाईण दसण्हं उवासगाणं कहाओ वुच्छामि । दहण सत्तमंगं समासओ आयसरणत्थं ॥" H. २ "आणंदाईण एवं सुचरियदसगं सत्तमंगाणुसारा संखेवेणं विचित्तं कयमिह गणिणा पुनभद्देण भदं । सीसेणं वाइविंदप्पहुजिणवइणो विकमाइच्चवासे वते वाण-सेलासिसिरकरमिए कण्हछट्ठीए जितु ॥" H. ३ "गुरुग(गि)रिविहितास्थपुण्यपर्वप्रवालः सुभगविमलमुक्ताशब्दधर्मैकहेतुः । सफलमृदुलतान्यः स्फारतेजोविभूति स्त्रिजगति वरवर्ति श्रीमदूकेशवंशः ॥ १ ॥ साधुस्तत्र बभूव भूमि विदितः क्षेमंधरः श्रीधरः सत्यासक्तमना वृषप्रणयवान् कौमोदकीभावभृत् । यश्चक्रेऽजमेरुनानि नगरे श्रीपावनेतुः पुरः प्रेम्णा सद्रजकष्टवृष्टिहतये शैलं महामण्डपम् ॥ २ ॥ ऋजुख(१)स्य महोदधेर्बहुतरा रत्नोपमाः सूनवः ___ संपूर्णा गुणसद्जै[:] सुरुचयो देवत्रियः कुक्षिजाः । कोप्य(प्ये)तेषु जगद्धरः सुकृतिनामग्रेसरः कौस्तुभः श्रीश्रीमत्पुरुषोत्तमैकहृदये वासित्वमैद्यो(?) गुणः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy